पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
98
[अयोध्याकाण्ड:
भरतदुस्स्वप्नदर्शनम्


दशरथस्य वंशस्य-परंपरागतराज्यस्य परिग्रहार्थं-भरतेन द्राक् स्वीकारार्थं च; अहेडमाना:- हेडृ अनादरे- उपेक्षारहिताः - विलम्बरहिताः, अत एव त्वस्या युक्ताः दूतास्तु रात्र्यामेव - अस्तमनानन्तरमपि कियत्कालं गत्वा रात्र्यामेव तत्पुरं याताः । [१] जय(१६)मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे अष्टषष्टितमः सर्गः



एकोनसप्ततितमः सर्गः
[ भरतदुस्स्वप्नदर्शनम् ]

[२] यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ १ ॥

 एवं दूतप्रवेशदिने भरतस्य दुस्स्वप्नः । यामेवेत्यादि । यामेव रात्रिं प्राप्य दूताः पुरीं प्रविशन्ति स्मेति योजना । अयमिति । वक्ष्यमाणलक्षण इत्यर्थः ॥ १ ॥

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २ ॥


  1. अत्र श्लोकसंख्या विवदति। तिलकेsपि 'अत्र कतकोक्तसंख्यारीत्या षट् श्लोकाः त्रुटिता:' इत्युक्तम् ।
  2. यामेव - यस्यामेव । सप्तम्यर्थे द्वितीया छान्दसी । तां-तस्याम्-
    गो. अत्यन्तसंयोगे द्वितीया वा । नगरस्यातिविस्तीर्णत्वात् सर्वरात्र्यां प्रयाणमुचितम् । अत
    एवं स्वप्नं दृष्ट्वा भरते तं ब्रुवति सति दूताः प्रविशन्ति स्म इत्युत्तरसर्गारंभे वक्ष्यमाणं युज्यते ।
    एवञ्च दूतानां नगरप्रवेशारंभकालादारभ्य वृत्तो वृत्तान्त: कथ्यतेऽत्र । पुरीमिति देशसामान्योपलक्षकं वा । पूर्वसर्गान्ते उक्तं गिरिब्रजं नाम पुरवरं केकयराजदेशसीमनि विद्यमानं नगरान्तरमेव । राज्यसीमानं प्राप्ता अपि त्वरया अहेडमाना: तत्पुरं-राजगृहं प्रत्येव याता इत्युक्तिरपि गतसर्गान्ते अत एव संगच्छते । प्रवञ्च दूता यदा तद्राज्यं प्रविष्टः तदा भरतदुस्स्वप्नारंभः । दूताश्च रात्र्यां सर्वस्यामपि गच्छन्तः प्रभाते भरतदुस्स्वप्नकथनावसरे भरतं प्रापुरिति गम्यते । तामित्यपि तथैवेति ॥