पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६ सर्गः]
83
प्रतीक्षन्ते स्म ते सर्वे भरतांगमनं द्रुतम्

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथं वयं निवत्स्यामः कैकेय्या च विदूषिताः ॥ २१ ॥

 विदूषिता इति । राज्यगर्वात् तिरस्कृता इति यावत् ॥२१॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह संत्यक्ताः सा कमन्यं न हास्यति ॥ २२ ॥
ता बाष्पेण च संवीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दाः राघवस्य वरस्त्रियः ॥ २३ ॥
निशा [१]चन्द्रविहीनेव स्त्रीव भर्तृविवर्जिता
पुरी नाराजतायोध्या हीना राज्ञा महात्मना ॥ २४ ॥
बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना ।
शून्यचत्वरवेश्मान्ता न बभ्राज [२] यथापुरम् ॥ २५ ॥

 शून्यचत्वरेति । सम्मार्जनालेपनबल्यादिशून्येति यावत् ॥

गते तु शोकात् त्रिदिवं नराधिपे
 महीतलस्थासु नृपाङ्गनासु च ।
निवृत्तचारः सहसा [३] गतो रविः
 [४] प्रवृत्त [५]चारा रजनी ह्युपस्थिता ॥ २६ ॥

 निवृत्तचारः - निवृत्तरश्मिप्रचार इति यावत् ॥ २६ ॥

[६]ऋते तु पुत्रात् दहनं महीपतेः
 न रोचयन्ते सुहृदः समागताः ।


  1. नक्षत्रही-च,
  2. यथापुरं-यथापूर्वम् ।
  3. गतः- अस्तं गतः ।
  4. प्रवृत्तचःरा-प्रवृत्ततमः-प्रवारा-गो.
  5. तारा-ङ,
  6. रात्रावदहने पर्युषितप्रायश्चित्तादीनां कर्तव्यतापातात् तदानीमेव दहनं कार्यमिति कैश्चित्प्रयतितमित्यनेन ज्ञायत इति गोविन्दराजः ॥