पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६ सर्गः]
81
ततोऽमात्या राजदेहं तैलद्रोण्यां न्यवेशयन्


[१] नर्दतां भीमघोषाणां निशासु मृगपक्षिणाम् ।
[२] निशम्य नूनं संत्रस्ता [३]राघवं संश्रयिष्यति ॥ १० ॥
वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनुचिन्तयन् ।
सोऽपि शोकसमाविष्टो [४] नूनं त्यक्ष्यति जीवितम् ॥ ११ ॥

 [५]अलपुत्रश्चेति । जनक इति शेषः ॥ ११ ॥

साऽहमद्यैव दिष्टान्तं गमिष्यामि पतिव्रता ।
इदं शरीरमालिङ्गय प्रवेक्ष्यामि हुताशनम् ॥ १२ ॥

 दिष्टान्तं—प्रारब्धकर्मान्तं, मरणमिति यावत् । हुताशनं प्रवेक्ष्यामीत्यत्र हेतुः --पतिव्रतनंति ॥ १२ ॥

[६] तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम् ।
[७]व्यपनीय सुदुःखार्तां कौसल्यां व्यावहारिकाः ॥ १३ ॥
तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ।
[८] राज्ञः सर्वाण्यथादिष्टाः चक्रुः कर्माण्यनन्तरम् ॥ १४ ॥

 व्यावहारिकाः–व्यवहारे-बाह्यान्तरसकलराजकृत्ये नियुक्ताः; ’तत्र नियुक्तः' इति ठक् । अमात्याः कौसल्यां भर्त्रालिङ्गनात् व्यपनीय – विमोच्य, अन्यतोऽपनीयेत्यर्थः । अथ, तैलपूरिता द्रोणी- कटाहः तथा, तस्यां जगतीपतिं निवेश्य, अथ राज्ञोऽनन्तरकर्तव्यानि सर्वाणि कर्माणि-दुःखपरिपालनादीनि चक्रुः ॥ १३-१४ ॥


  1. मृगरक्षिणां निशम्य - नादमिति शेष:-गो. ति.
  2. निशम्य नादं-ङ. निशाम्यमाना-च.
  3. पत्या गतत्वात् खलु तस्या: भये प्राप्ते आश्रयलाभः, अतोऽहमपि पतिमनुगच्छेयमित्युक्तेः पीठिकेयम् ॥
  4. ननु - ङ.
  5. अल्पपुत्रः - कन्यामात्रपुत्र:- गो. ति.
  6. श्लोकद्धयमेकान्वयम् ।
  7. व्यपनिन्युः-च.
  8. आदिष्टाः राजकृत्येष्वादिष्टाः अमात्याः राज्ञः कर्माणि सर्वाणि-प्रजाशासनादीनि चक्रुः - गो.