पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
76
[अयोध्याकाण्डः
अन्तःपुराक्रन्दः

निद्रया समन्विते तथा । [१] कालसमन्विते मृते यथा न प्रतिबुध्येते इतीयं योजना अश्लीलत्वादुपेक्ष्या ॥ १७ ॥

 [२] निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ।
न व्यराजत कौसल्या तारेव तिमिरावृता ॥ १८ ॥

 शोकेन सन्ना - उपहता । सन्नता - सुप्तिवशसङ्कुचितकरचरणा ॥

[३] कौसल्याऽनन्तरं राज्ञः सुमित्रा तदनन्तरम् ।
[४]न स्म विभ्राजते देवी शोकाश्रुलुलितानना ॥ १९ ॥
ते च दृष्ट्वा तथा सुप्ते उभे देव्यौ च तं नृपम् ।
[५]सर्वमेवोद्गतप्राणमन्तःपुर[६]मदृश्यत ॥ २० ॥

 ते चेत्यादि । ते उभे देव्यौ तथा सुप्ते - गाढसुप्ते प्रश्वासादिना दृष्ट्वा, तं नृपं सुप्तमेव सन्तं तदवस्थायामेवोद्गतप्राणं तल्लक्षणतो दृष्ट्वा सर्वमेव अन्तःपुरं उद्गतप्राणं - तत्कल्पमदृश्यत ॥ २० ॥

ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः ।
करेणव इवारण्ये स्थानप्रच्युतयूथपाः ॥ २१ ॥


  1. गोविन्दराजेन तीर्थेन च एवं व्याख्यातम् । विधेयविशेषणं वा । यथाकालसमन्वितत्वेन न प्रबुध्येते इत्यर्थः ॥
  2. निष्प्रभा-नि:श्रीका, विवर्णा-पूर्ववर्णात् विपरीतवर्णा, शोकेन सन्ना-कृशा, सन्नता- कार्श्येन नम्रा, तिमिरावृता-उत्पातकालोत्थधूमः तिमिरं, तेन आवृता तारेव-तारकेव न व्यराजत-गो.
  3. राज्ञः अनन्तरं कौसल्या, तदनन्तरं सुमित्रेति तेषां क्लेशतारतम्यपरीक्षणं कविना कृतम् ॥
  4. मृताद्दशरथात् जीवन्त्योः कौसल्यासुमित्रयोः विशेषो नासीदित्यर्थः- गो. एवञ्च त्रीनपि मृतान् ज्ञात्वा सर्वमेवान्तःपुरमुद्गतप्राणमदृश्यत । अत एव तासां कौसल्याप्रबोधने न प्रवृत्तिः, किन्तु 'प्रचुक्रुशुर्दीनाः' इत्युच्यते । ‘ते च दृष्ट्वा तथा सुप्ते' इति तु कवेर्दृष्ट्या ।
  5. सुप्तमेवो-ङ.
  6. मतप्यत-ङ.