पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
66
[अरण्यकाण्ड:
सीताधर्म प्रतिबोधनम्



 अत्र वने तु शस्त्रसेवनात् कदर्यकला-कदर्याणां-कृपणानामिव कलुषा बुद्धिः जायते धर्मानुष्ठान विरोधिनी, अतः शस्त्रसेवनं बने तु न कर्तव्यमिति शेषः। ‘देशधर्मस्तु पूज्यतां' इत्यत्र यः अर्थः अस्माभि- रुक्तः स एवात्र प्रदर्श्यते-- पुनर्गत्वेत्त्यादि ॥ २८ ॥

अक्षया तु भवेत् प्रीतिः [१] श्वश्रूश्वशुरयोर्मम ।
यदि राज्यं [२] हि संन्यस्य भवेस्त्वं निरतो मुनिः ।। २९ ।।

 शस्त्रसेवनं न कर्तव्यमिति यदुक्तं, तदेव स्थिरीक्रियते - अक्षयेत्यादि । राज्यं हि-प्रसिद्धं संन्यस्य वर्तमानः निरतः-वननिरतः त्वं यदि मुनिः-मुनिवृत्तिः भवेः, तदा मम श्वश्रश्वशुग्योरपि अक्षया- प्रीतिर्भवेत् । श्वशुरम्य वनवासोचितधर्मानुष्ठानेन स्वर्गलाभजा प्रीतिः, श्वश्रास्तु युद्धादिक्केशराहित्येन सुखवासजा प्रीतिः ॥ २९ ॥

धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
धर्मेण [३] लभते सर्व धर्मसारमिदं जगत् ||३०||

 अथ देशकालोचितो मुनिघमे एक अस्माभिरनुष्ठेयः, न तु हिंसालक्षणाधर्मः इत्युपसंहारेणाह- धर्मादित्यादि ॥ ३० ॥

आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मः न सुखाल्लभ्यते सुखम् || ३१ ||



  1. श्वश्रश्वशुरयोः -कैकेयीदशरथयोः- गो. अयं नावः - ताभ्यां हि तुभ्यं
    मुनिवृत्तिरवादिष्टा । यदि त्वं धनुगृहीत्वा स्वपराक्रमं प्रकटये:, तदा तत् कथं निर्वर्खेत ।
    लं तु सबै सर्वत्र साधितुं शक्तः । भवत्पराक्रमप्रकटनेऽत्रापि नून. मपि राज्यमेव
    स्थापयितुमपि शक्येत । एतत्तु मम श्वश्रश्वशुरयोरादेशविरुद्धमेव । अतः क्षत्रषमं
    परित्यज्य मुनिधनें तिष्ठ - इति । एतदेवानन्तर लोकै: वित्रियते ॥
  2. परित्यज्य--ड.
  3. लभ्यते-ङ.