पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
64
[अरण्यकाण्ड:
सौताधर्मप्रतिबोधनम्


परिवहन्- रक्षन् ॥ २१ ॥

ततः स रौद्रेऽभिरतः प्रमत्तो [१]ऽधर्म कर्शितः ।
तस्य शस्त्रस्य संवासात् जगाम नरकं मुनिः ॥ २२ ॥

 अधर्मकर्शितः पीडितः ॥ २२ ॥}}

एवमेतत् पुरावृत्तं शस्त्रसंयोगकारणम् ।
[२] अग्निसंयोगवद्धेतुः शस्त्रसंयोग उच्यते ॥ २३ ।।

स्नेहाच बहुमानाच सारये त्वां [३] तु शिक्षये ।

 बहुमानादिति। मदीयो भर्ता इत्येवंरूपः अभिमानः बहुमानः । स्मारये, पुरावृत्तमिति शेषः । अपि तु बहुमानात् त्वां तु शिक्षये ॥ २३ ॥

न कथंचन सा कार्या गृहीतधनुषा त्वया ॥ २४ ॥
बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्।

अपराधं विना हन्तुं [४],लोकान्, वीर! न कामये ॥ २५ ॥

 तदेव करोति–न कथंचनेत्यादि। एवं पाङ्क्ते, श्रद्धाजाड्यात् 'स्मारये त्वां न शिक्षये' इति पठित्वा कश्चित् व्याकरोति, [५] तत्तु साक्षादुत्तरवाक्यक्रियमाणशिक्षणव्याहतम् । शिक्षणे हेतुश्च बहुमाना- दिव्युक्तमेव | वैरं विना हन्तुं बुद्धिर्न कार्या इत्ययमेवार्थः प्रपञ्चयते- अपराधं विनेत्यादि ॥ २५ ॥



  1. धर्मकर्शितः, धर्मदर्शने-ड
  2. शस्त्रसंयोगः अप्रसंयोग इव कार्यकारीति भाव ।
  3. न-ड.
  4. लोको वीर न मंस्थते-ङ
  5. महेश्वरतीर्थः, गोविन्दराजो वा परन्तु सर्व तु विदितं तुभ्यं' 'स्त्रीचापला देतदुदाहृतं' इत्यादिवदन्त्याः सीतासदृश्या: धर्मपरन्या: रामसदृश- पतिशिक्षणे अमर्यादतामालोच्य तीर्थंगोविन्दराजाभ्यां स एव प्राचीनः पाठः आवृतः । उत्तरवाक्यान्यपि स्मारणरूपाण्येव, न शिक्षणरूपाणीति लोकमर्यादयाऽपि ज्ञातुं शक्यते ।