पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
46
अरण्य गण्ड:
रक्षोवषप्रतिशा


विप्रकारमपाक्रष्टुं राक्षसैः भवतामिमम् ।

 नैवमर्हथ मां वक्तुमिति । अर्यित्वात् नाथेत्यादिना यद्रक्षण- प्रार्थनारूपं वचनं, तत् वक्तुं नाईथ । अपि तु अहं तपस्विना- माज्ञाध्यः । ज्ञा चातुः मित् ज्ञापने, ण्यन्तादस्मात् 'अचो यत्' इति यत् ततः 'कृत्यानां कर्तरि वा' इति षष्ठी । तपस्विभिः एवं कुर्विति केवलं शिक्षणीयः, स्वपुत्रशिष्यादिवत् इत्यर्थः । केवलन - उपाध्यन्तरप्रयुक्तिरहितेन, आत्मकार्येण -स्वकार्येण – स्वप्रयोजनेन पितुर्वचनपरिपालनात्मकेन अवश्यं मया वनं प्रवेष्टव्यमेव । अयमेव वनप्रवेशः दैवगत्या राक्षसैः क्रियमाणं भवतां हम विप्रकार अगष्टु- मपि संपन्नः ॥ २२ ॥

[१]पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् ॥ २३ ||
भवतामर्थसिद्धयर्थं आगतोऽहं यदृच्छया ।
तस्य मेऽयं वने वासः भविष्यति [२] महाफलः ।। २४ ।।
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान् ।
पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ।। २५ ।।

 उक्त लोकार्थ एव कविनापि लोकान्तरेण वण्र्ण्यते । एवमपि शैली कवेः । पितुस्त्वित्यादि । हन्तुमिच्छामीति यत् अतो मे वनवासो महाफलो भविष्यतीति स्वगतोऽयं विचारः । अथ प्रकाशमाह - पश्यन्त्वित्यादि । वीर्यमिति । रक्षोवध प्रयोजन प्रवृत्तमिति शेषः । हनिष्यामीति यावत् ॥ २५ ॥



  1. पितृवाक्यपरिपालनाय वनं प्रविष्टोऽसीति किंवदन्त्याः का गतरित्यत्राह-
    पितुति । अहं भवतामर्थसिध्यर्थं आगतोऽस्मि, यदृच्छया-देवगत्या पितुनिर्देशक :
    वनमिदं प्रविष्टोऽस्मि-गो.
  2. महोदयम्-ङ..