पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५. सर्ग:]
35
रामं प्रियातिथिं दृष्ट्वाऽतिहृष्टो बभूव सः



ततः [१] शक्रोपयानं तु पर्यपृच्छत् स राघवः ।
शरभङ्गव तत् सर्वं राघवाय न्यवेदयत् ॥ २६ ॥

 शकोपयानं – शक्रोपागमनप्रयोजनमित्यर्थः ।। २६ ।।

मामेष वरदः, राम ! ब्रह्मलोकं निनीपति ।
जितमुग्रेण तपसा दुष्प्राप [२]मकृतात्मभिः ॥ २७ ॥

 न्यवेदयदिति कथमित्यतः -मामेष इत्यादि । एषः वरदः-- देवेन्द्रः मां ब्रह्मलोकं निनीषति इति श्रीमदादिगुरुब्रह्माज्ञयेति शेषः । कथं तथा निनीषेत्यत्राह - जितमुग्रेण तपसेति । अकृतात्मभिः दुष्प्रापं – असिद्धाकृत कभगवदनन्यतत्वात्मयोगः प्राप्तुमशक्यं ब्रह्मलोक- मिति संबन्धः ॥ २७ ॥

अहं [३]ज्ञात्वा, नरव्याघ्र ! वर्तमानमदूरतः ।
ब्रह्मलोकं न गच्छामि [४] त्वामदृष्ट्वा प्रियातिथिम् ॥ २८ ॥

 ज्ञात्वेति । योगचक्षुषेति शेषः । न गच्छामीति – योगसिद्धतः स्वेच्छादेहत्यागात् ।। २८ ।।

त्वयाऽहं, पुरुषव्याघ्र ! धार्मिकेण महात्मना ।
[५] समागम्य गमिष्यामि त्रिदिवं [६]देवसेवितम् ।। २९ ॥

त्रिदिवं-अवरं परं चेत्यर्थः । परं- नाकादिसंज्ञो ब्रह्मलोकः ॥ २९॥



  1. शकोपयानं - इन्द्रागमननिमित्तं - गो.
  2. मजितात्मभिः-ड
  3. शात्वा-योगचक्षुषा-गो. ति
  4. त्वा दृष्ट्वा च-ड.
  5. समागम्य सकृद्वा दर्शनानन्द अनुभूयेति यावत् ।
  6. चावरं परम्- ङ.