पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
32
[अरण्यकाण्डः
शरभङ्गदर्शनम्



विस्तीर्णविपुलोरस्काः परिघायतबाहवः ।
[१]शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः ॥ १६ ॥

 विस्तीर्णानि – विपुलानि - अतिशयेन विशालानि उरांसि येषां ते तथा । शोणांशूनि-शोणप्रमानि वसनानि येषां ते तथा । एवं पाकः पाठः । शोणाश्मवसनानि च येषामित्याह [२] | परस्तु शोणाश्मवसना इत्युक्ता पद्मरागवसना इत्याह । अंशवः- किरणानि, तत्संबन्धो वस्त्राणां न समस्तीत्यादिदुर्मत्या पाङ्कपाठ- नाशनम् ।। १६ ।।

उरोदेशेषु सर्वेषां हाराः ज्वलनसंनिभाः ।
रूपं बिभ्रति, सौमित्रे ! पञ्चविंशतिवार्षिकम् ।। १७ ।

 हाराः ज्वलनसंनिभाः इति दीप्तिमत्त्वमात्रे तात्पर्यम् । बिभ्रति — अभ्यस्तत्वात् अदादेशः । पञ्चविंशतिः परिमाणमस्य, 'तदस्य परिमाणं' इति ठक्, 'वर्षस्याभविष्यति' इत्युत्तरपदवृद्धिः ॥

एताद्ध किल देवानां वयो भवति नित्यदा ।
यथेमे पुरुषव्याघ्राः दृश्यन्ते [३] प्रियदर्शनाः ॥ १८ ॥

 एतद्धीति–पञ्चविंशतिवर्षप्रमाणकमित्यर्थः । यथेमे दृश्यन्ते एतद्धि इति पूर्वेणान्वयः । नित्यदेति बहुश इह प्रयोगः ॥ १८ ॥

इहैव सह वैदेया मुहूर्त तिष्ठ, लक्ष्मण !
यावज्जानाम्यहं व्यक्तं क एप द्युतिमान् [४] रथे ॥ १९ ॥



  1. शोणाश्मवसनाः – शोणाश्ववसनाः-ङ.
  2. महेश्वरतीर्थ
  3. शुभदर्शना:- ङ.
  4. रथे' इत्यनेन तदानीं रामं दृष्ट्वा रथमारूढ इत्यवगम्यते-गो
    अत एव रामोपसर्पणात् पूर्वमेव इन्द्रस्य प्रस्थानमुच्यते समनन्तरमिति भावः ।