पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सर्गः ) पृष्टा सा प्रणता प्राइ कुशलं रामदर्शनात् 519 आगमिष्यति ते इति । अनुग्रहायेति शेषः। स त इति । स्वयेति तं व दृष्ट्वति । अस्माकं शुश्रूषाजनितादृष्टमिव रामरूप - ब्रह्मापरोक्षसाक्षात्कारजमदृष्टमपि सम्पाद्येत्यर्थः । वरान् अक्षयान् यावत् । लोकान् इति विशेषणाभ्यां इह 'लोक' इति ब्रह्मलोकः सुस्पष्टः, अन्यत्र सद्विशेषणयोर्मनसाऽध्य शंक्यत्वात् ॥ १५-१६ ॥ PUITS "एवमुक्ता महाभागैः तदाऽहं पुरुषर्षभ ।

मया तु विविधं वन्यं संचितं, पुरुपर्पभ ॥ १७ ॥ तवार्थे, पुरुषव्याघ्र ! पम्पायास्तीरसंभवम् । एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् ।। १८ ।। राघवः प्राह | विज्ञाने तां नित्यमबहिष्कृताम् ।

संचितं -सम्यक् परीक्ष्य माधुर्ययुतं संचितमित्यर्थः । तदुक्तं पाद्मे 'फलानि च सुपक्कानि मूलानि मधुराणि च । स्वयमास्वाद्य माधुर्य परीक्ष्य च परीक्ष्य च ॥ पश्चान्निवेदयास राघवाभ्यां दृढव्रता । फलान्यास्वाच काकुत्स्य: तस्यै मुक्ति परा॑ ददौ' इति-ति. तत्तत्फल जातीयमाधुर्य परीक्ष्य स्थापितमिति संप्रदाय: - गो. + जात्या हीनामपि आचार्यप्रसादलब्धब्रह्मज्ञानाम्-गो. विज्ञाने-आगतानागत- ज्ञाने-ती. विशिष्टं ज्ञानं येषां तेषां सम्बन्धः यस्याः तत्सम्बोधनं- हे विज्ञाने । तो नित्यमबहिष्कृतां – भोजनादिव्यवहारादिति शेषः । तइसमादाराषङ्गीकृत्य चेति शेष: इत्यन्ये-ति. 1 इदं अर्ध नास्ति-ङ..