पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ऋष्यमूकमार्गकथनम् त्रिसप्ततितमः सर्गः [ ऋष्यमूकमार्गकथनम्] निदर्शयित्वा रामाय सीतायाः 'परिमार्गणे । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरनवीत् ॥ १ ॥ अथ मार्गोपदेशपूर्वं सुग्रीवावस्थानदेशमुक्ता कबन्धस्य निर्याणम् । निदर्शयित्वेत्यादि । परिमार्गण इति । उपायमिति शेषः ॥ १ ॥ 506 [अरण्यकाण्ड: एषः, राम! 2 शिवः पन्थाः यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ २ ॥ जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥ ३ ॥ धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥ ४ ॥

    • अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रका |

धन्वनाः -- धवाः । नागवृक्षाः – नागकेसराः । अग्नि- मुख्याः - अरुष्कराः । सुरक्ताः – रक्तचन्दनाः । पारिभद्रकाः- मन्दाराः ॥ ३-४॥ — + तानारुह्याथ वा भूमौ पातयित्वा च तान् बलात् ॥ ५॥

  • अग्निमुख्याः – भल्लातकीवृक्षाः । पारिभद्रकाः – निम्बा:-

गो. + पातयित्वा- नमयित्वा-गो. उत्तराघोंच्यमान फलग्रहणशेषतया तानारुह्येत्याधुच्यत इति प्रतिभाति । उत्तरत्रा (९) प्येवमेव दृश्यते । 2 गिरेः- ङ. 3 अशोकास्त्वतिमुक्ताश्च सुभद्राः 1 प्रतिपादने - ङ. पारिभद्रका:- ङ.