पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

502 सीताप्राप्त्युपायकथनम् [ अरण्यकाण्ड: सत्यसन्धो विनीतश्च धृतिमान् मतिमान् महान् ॥ १३ ॥ तेजोवानिति । तेजस्वीति यावत् ॥ १३ ॥ दक्षः प्रगल्भ द्युतिमान् महाबलपराक्रमः । भ्रात्रा विवासितः, 'राम ! राज्यहेतो' महाबलः ॥ १४ ॥ स ते सहायो मित्रं च सीतायाः परिमार्गणे । 10 भविष्यति हि ते, राम ! मा च शोके मनः कृथाः ॥१५॥ हि ते इति पदद्वयम् ॥ १५ ॥ भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा । कर्तु, इक्ष्वाकुश्शार्दूल ! कालो हि दुरतिक्रमः ॥ १६ ॥

यच्चापि भवितव्यमिति । राज्यभ्रंशवनवासदारापहारादि दुःखं तन्न शक्यामेह संसारे केनापि अन्यथा कर्तुं, 'अतः शोके मनः मा कृथाः ॥ १६ ॥ गच्छ शीघ्रमितः, राम! सुग्रीवं तं महाबलम् । । वयस्यं तं कुरु क्षिप्रं इतो गत्वाऽथ, राघव ! ॥ १७ ॥ अद्रोहाय समागम्य दीप्यमाने विभावसौ । अद्रोहाय-परस्परद्रोहपरिहारार्थमित्यर्थः । दीप्यमाने विभा- बसौ-तत्सन्निधौ तत्याक्षिकतया तं वयस्यं कुर्विति समसंधिः ॥ १७ ॥ स च ते नावमन्तव्यः सुग्रीवो वानराधिपः ॥ १८ ॥ कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् । अतः शोके मनः मा कृथा: इति शेष:-ति. पूर्वस्थितस्यैवावृत्तिर्वा ॥ वीर-ज. 2 महात्मना-ज.