पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ 486 Weg कबन्धनिग्रहः 1 इति ब्रुवाणो दृढसत्यविक्रमः 'महायशा दाशरथिः प्रतापवान् । अवेक्ष्य सौमित्रिमुग्र पौरुषः * स्थिरां तदा स्वां मतिमात्मनाऽकरोत् ।। ५१ ।। इत्यार्षे श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे एकोनसप्ततितमः सर्गः उदग्रपौरुषो रामः सौमित्रिमवेक्ष्य दीनमवेक्ष्य स्वां मतिं तु आत्मना --आत्मवैभवेन तदा स्थिर/मकरोत् । नतु रक्षे निमित्त- भयलेशं विषादलेशमपि प्राप्तवान् इत्यर्थः । कर्म (५१)मानः सर्गः ॥ ५१ ।। 212 Suny [अरण्यकाण्डः इति श्रीमद्रामायणामृत कतकटीकायां अरण्यकाण्डे एकोनसप्ततितमः सर्गः सप्ततितमः सर्गः [कबन्धनिग्रहः ] तौ तु तत्र ' स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ १ ॥ अथ कबन्धभुजच्छेदः, तदनन्तरं तस्य प्रत्यभिज्ञाप्राप्तिश्च । तौ तु तत्रेत्यादि । परिक्षिप्तौ - पाशप्रकारेण परिवृतौ व्याप्तौ ॥ १ ॥

  • उदयपौरुवमिति पाठे तादृशलक्ष्मणदर्शनेन उत्तम्भितवीर्यः स्वयं प्रतिष्ठितोऽभू-

दित्यर्थ: । परस्परावष्टंमेन परस्परप्रत्यवस्थानं सहजमेव । अनन्तर सर्गस्थलक्ष्मणवाक्य- 3 स्थितो- ङ. मध्यत्र द्रष्टव्यम् ॥ 1 2 महारथ:- ङ. पौरुषं, विक्रमं - ङ, विक्रमः-ज.