पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स स्वांचकर्ष बाहुभ्यां राघवौ पीडयन् बलात् उवाच च विषण्णः सन् राघवं राघवानुजः । पश्य मां, वीर! * विवशं राक्षसस्य वशं गतम् ॥ ३८ ॥ मयैकेन विनिर्युक्तः परिमुञ्चख, राघव । मां हि भूतबलिं दत्वा पलायख यथासुखम् ॥ ३९ ॥ तमेव दर्शयति वचनेन – उवाचेत्यादि । मया एकेन- अवशेन, विनियुक्तः– नियोजितरक्षोबलिः सन् त्वं किंचित् स्ववशं त्वदात्मानं परिमुञ्चयस्व | पलायनेनेति शेषः । उक्तार्थस्यैव विवरणं ६९ सर्ग:] 483 - उत्तरार्धं — मां हीत्यादि । भूतबलिं। महाभूताकाररक्षोभक्षणमित्यर्थः ।। - अधिगन्ताऽसि वैदेहीं अचिरेणेति मे मतिः । प्रतिलभ्य च, काकुत्स्थ ! पितृपैतामहीं महीम् ॥ ४० ॥ तत्र मां, राम! + राज्यस्थः सर्तुमर्हसि सर्वदा । 'लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ।। ४१ ॥ 1 ,

  • विवशमित्यत्र हेतु: -राक्षसस्य वशंगतमिति । + 'स्मरणीयाः समये वयम्

इति लोकन्यायानुसारेणाह- राज्यस्थ इति । 1 एतच्छलोकद्वयस्थाने ङ. पुस्तके – एवं अधिक: पाठ: प्रदर्शितः – मांसराशिमयः पापः रूपमात्रं हि भीषणम् || न हि मे त्वत्समो बन्धुं: कश्चनानघ ! विद्यते । न मातुश्च ममाख्येयः विनाशश्च कथञ्चन ॥ विषीदत्यतिमात्रं हि प्रियपुत्रा हि सा भृशम् । तं तु संपन्नया वाचा परितापार्तमातुरम् ॥ आश्वास हेतोर्वचन मिदमाह परंतपः । पुत्रो दशरथस्यासि द्वितीयो मम चानुजः ॥ स प्राकृत इवोदारः कथं नाम विषीदसि । मा संत्रासं कृथा वीर ! न हि त्वादृग्विषीदति । ततः सत्वानि तद्रक्षः क्षुधया चाग्रसत्तदा ॥ खड़गिनो दृढभन्वानौ तिग्मबाणौ धनुर्धरौ। भ्रातरावरणीं प्राप्य कृष्यमाणौ ददर्शतुः ॥ महाजगरसंकाशौ खड्गरोमभिरावृतौ । तीक्ष्णरोमनखौ बाहू पञ्चास्याविव पन्नगौ । ताभ्यां तु कृष्यमाणौ तौ बाणपातमिवागतौ । कृच्छ्रण दूरतस्तस्य तत्र दृड्वा व्यवस्थितौ ॥ ततः पिपासाविक्षिप्तः क्षुधया निभृतस्तदा। विनिक्षिप्तांसबाहुभ्यां मृगैस्सह महावने ॥ भ्रातरौ निकटं प्राप्य कृष्यमाणौ ददर्श छ । ताबुवाच महाबाहुः कबन्धो दानवोत्तमः ॥ इति ॥ 11 31 *