पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ सर्गः] 469 जटायुरपि सर्व तद्वृत्तमुक्ता यथास्थितम्

पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च । इत्युक्ता दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥ १६ ॥ इत्युक्तेति । एतावन्मात्रमुक्तवा उपरि तद्वीर्यतद्धन- तद्भवनादिकथनात् पूर्वमति शेषः ॥ १६ ॥ ब्रूहि ब्रूहीति रामस्य वाणस्य कृताञ्जलेः । त्यक्ता शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥ १७ ॥ स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा । विक्षिप्य च शरीरं स्वं पिपात धरणीतले ॥ १८ ॥ तं गृधं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैः दीनः सौमित्रिमत्रवीत् ।। १९ ।। Sबहूनि रक्षसां वासे वर्षाणि वसता सुखम् ! [पक्षिराजेन मित्रेण तातमित्रेण नः सुखम् ।] अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ।। २० ।। रक्षसां वासे अस्मिन् दण्डकारण्ये, बहूनि वर्षाणि सुखं वसता अनेन पक्षिणा इहैव दण्डकारण्ये विशीर्ण-देहविशरणं प्राप्तम् ।।

  • अस्योत्तरार्ध ' अध्यास्ते नगरी लड्डां रावणो राक्षसेश्वरः' इति बोध्यम् ।

उत्तरत्र (किकि. 58-19) संपातिवचने इदमेव पूर्वार्धमुपादाय अस्योत्तरार्धस्य कथनादिति लोकाचार्यैरुक्तम्- गो. + पपातेत्युक्तिरौपचारिकी - गो. पूर्वमेव खलु स पतित इत्याशयः । परन्तु यावत्प्राणं कन्धराद्यवयवधारणं, प्राणापगमक्षण एव अवयवानां पतनं इत्यनुभवसिद्धमेव । यदा धरणविगमः तदा पतनमिति सहजम् । + ताम्राक्ष-- अधश्शिरस्कतया पतनजक्षोभात-गो. 'सनिक्षिप्य शिरो भूमौ ' इत्युक्तेरेवं व्याख्यातं भाति । वस्तुतस्तु रुधिराक्षत्वात् ताम्राक्षं इति स्यात् । 5 निरन्तरापायवति देशे एतावता कालेन बसवाऽपि इह - अद्यैव विशीर्णम् विशरणं प्राप्तम् । मदर्थ मेवैतावता जीवितमिवेस्थाशयः ॥ इदमर्थ नारित-ज, झ.