पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

450 रामरौद्रावेश:

  • पुरेव मे चारुदतीमनिन्दितां

दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपत्रगं जगत् सशैलं परिवर्तयाम्यहम् ।। ७६ ।। इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुष्पष्टितमः सर्गः [ अरण्यकाण्ड: ● , 6 परिवर्तयामि इति । नाशयामीत्यर्थ: । ननु 'नैव यक्षाः इत्यादि 'परिवर्तयामी 'त्यन्तवादः 'मृत्युं मरणधर्मेण योजयामी :- त्यादिरावणवचनवत् क्रोषजल्पमात्रम्, उत संभाव्यम् ? उच्यते- अस्मदुक्तरीत्या साम्राज्यभूमरजश्शक्तयावेशे तु संभाव्यमेव, तथा तथा सम्पादनस्येषत्करत्वात् । अन्यथा तु जल्पमात्र, अशक्यार्थत्वात् एवं ब्रह्मसृष्टसंहारस्य ब्रह्मातिरिक्तेन मनसाऽपि दुःस्मरत्वात् स्वस्यैव निराश्रयतो नाशप्रसङ्गात् सुस्पष्टं अखिलाश्रयाखिलजगत्प्रपञ्चकृत्य- -

ननु एवं क्रोषः कथमस्य ? किमर्थं च ? इति चेत् शृणु। मनुष्यदेहधारणेन तद्व्यवहारनटनमेवैतत् । किन ईदृशदुःखकालेऽप्यस क्रोधाभावे रावणो मनुष्यबुद्धि कुर्यास्; तथा च तद्वधः शक्य: स्यादिश्येतदर्थं च । 'मृत्युं मरणधर्मेण योजयामि (अर - 31-6) इत्यादिवचोऽपि रावणवचोवदेव अरोपितक्रोधमूलकत्वात्। अत एव शरैर्विषमिष्यामीत्युक्तिः । लक्ष्मणस्तु तत्त्वज्ञोऽपि तद्वदेवातस्व तन्मायामोहितो वा, प्रलयकालकरौद्र शक्तावेशं संभाव्यानुनयति स्म । किवाय कोषस्यारोपितत्वाभावे अथ सीताया अलामे सर्वजगत्परिवर्तनं प्रतिज्ञाय, कथं लक्ष्मणप्रार्थनयाऽपि तामन्यथयेत् । अन्यथा केकेय्यत्रे कृतां बनवासप्रतिज्ञां कथं कौसल्यावचसा न त्यक्तान् । तस्मात् सा यथार्था; इयं तु आरोपितेत्येव सारम् । अनेन व्यवहारेण कोबादिकाले कृताया अयुक्ताया अपि प्रतिशाया अपालनेऽत्यन्तदोषाभाव इत्यपि सूचितम्-ति.। + वक्ष्यते हि — 'यदि रामः समुद्रान्तां मेदिनी परिवर्तयेत् । अस्या हेतोवंशालाक्ष्या युक्तमित्येव मे मति: ' (सुन्द-16-13) इति-गो. अक्षरोत्तरं करिष्यामीति वा ।