पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ सर्ग:] दृष्टुंदं समरस्थान विस्मितोऽथ रुषाऽब्रवीत् कर्तारमपि लोकानां शूरं करुणवेदिनम् ।। ५५ ।। अज्ञानादव मन्येरन् सर्वभूतानि, लक्ष्मण !

445 अथ पौरुष मेवावलम्ब्यमित्युक्तिशेषतया लोकस्थितिः काचित् प्रदर्श्यते -- कर्तारमपीत्यादि । सर्वेषामपि लोकानां साक्षात् संहार- कर्तारं शूरं श्रुतिस्मृतिप्रसिद्ध त्रिपुरसंहारादिविषय कनिरतिशयशौर्यं महेश्वरमपि करुणवेदिनं—करुणं यथा तथा वेदितुं शीलमस्त्यस्येति तथा, दयादृष्ट्या तूष्णीं अवस्थितं महेश्वरमपि अज्ञानात् तद्वैभवापरि- ज्ञानात् अवमन्येरन् । किमयं करिष्यति कुपितोऽपीति न गणयन्ती- त्यर्थः यः ।। ५५ ।। मृदुं लोकहिते युक्तं दान्तं करुण 'वेदिनम् ।। ५६ ॥ निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः । - यदेवं अतः - मृदुमित्यादि । लोकहिते-प्राणिसौख्य संपादने युक्तं – युक्तचित्तं, अत एव मृदुं-मुदुस्वभावावलम्बिनं, इदं तु लोकानामभिगमनीयत्वाय, दान्तं नानाप्रकारपरखहरणप्रवृत्तिरहिते- न्द्रियवर्गम् ; करुणवदिनं मां नूनं त्रिदशेश्वराः— इन्द्रादयः निर्वीर्य मन्यन्ते । यतः स्वावगतहरणामपि मदीया मुपेक्षन्ते । ननु मनुष्येण कथं निजोपास्यत्रिदशेश्वरस्पर्धा शक्या मनुष्यत्वबुद्ध्यभावादेव । तर्हि देवताबुद्धौ सार्वज्ञ्यतः सीतागतिपरिज्ञानतः प्रलापाद्ययोगात्- उच्यते - स्वानुभवेनैव स्वरादिसंहारे स्वबलनिस्तुलाधिकत्वज्ञानस्य सिद्धत्वात् ।

  • अत्र

कतारमपीत्यादि सामान्योक्तिः । मृदुमित्यादि च स्वविषयोक्तिः । पवन स्वस्य जगत्कर्तृत्वादिकं स्वेनैव प्रकटितमित्याबुक्तः, तमूलविवादादेव नावसरः ॥ 'वादिनम् - ङ.