पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैताः शशंसू रामाय सीतां तां रक्षसां भयात् 435 कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ? ॥ ४ ॥ न ह्यहं वेद तं देशं यत्र सा जनकात्मजा । क्लेशनाशिनीति । सति दर्शने इति शेषः ॥ ४ ॥ ६४ सर्ग:] लक्ष्मणस्य वचः श्रुत्वा दीनः सन्ताप'मोहितः ॥ ५ ॥ रामः समभिचक्राम स्वयं गोदावरी नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमन्ब्रवीत् ॥ ६ ॥ तां - गोदावरीम् ॥ ६॥ भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसू रामाय तथा गोदावरी नदी ॥ ७॥ भूतानीत्यादि । भूतानि पूर्वोक्तरूपेण पृच्छयमानान्यपि राक्षसे- न्द्रेण हृतां ज्ञात्वाऽपि तद्भयात् रामाय सीतां न शशंसुः । गोदावरी च न शशंसेति विपरिणामः ।। ७ ।। तथा ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति । न तु साऽभ्यवदत् सीतां पृष्टा रामेण शोचता ॥ ८ ॥ अपि च भूतैः 'अम्मै सीतां शसे' ति प्रचोदितापि गोदावरी तां सीतां पृष्टाऽपि नाभ्यवदत् । रावणस्य च तद्रूपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥ ९ ॥ कुतः इत्यतः -- रावणस्येत्यादि ॥ ९ ॥ -

  • भूतानि-वन्यानि सत्त्वानि, दृष्टान्तार्थम्- गो.

कर्शितः- ङ. 28*