पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधिर्वामः सकामोऽस्तु, हा लक्ष्मण न पारये एकं शोकमनु - अनुक्षणं प्रवृत्तः शोकानुशोकः । परम्परायाः- अविच्छेदेन प्राप्तेर्हेतोः । हृदयं तदधिष्ठानमात्मानं मनश्च मिन्दन् एति ॥ ३ ॥ पूर्व मया नूनमभीप्सितानि * पापानि कर्माण्यसकृत् कृतानि । तत्रायमद्यापतितो विपाकः दुःखेन दुःखं यदहं विशामि ॥ ४ ॥ उक्त एव प्रकाश्यते – पूर्वमित्यादि । अभीप्सितानि चिकीर्षा- विषयं प्राप्तानि इत्यर्थः । विपाकः -परिणामः ॥ ४ ॥ 429 राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वाणि मे, लक्ष्मण ! शोकवेगं आपूरयन्ति प्रविचिन्तितानि ॥ ५ ॥ शोकानुशोकः प्रदर्श्यते - राज्येत्यादि । शोकवेगमा- अथ पूरयन्तीति । इदानीन्तनमिति शेषः ॥ ५ ॥ सर्वं तु दुःखं मम लक्ष्मणेदं

  • शान्तं शरीरे वनमेत्य 'शून्यम् ।

सीतावियोगात् पुनरप्युदी काष्ठैरिवाशिः सहसा प्रदीप्तः ॥ ६ ॥ शरीरक्लेशे विस्मृतमित्यर्थः ॥ ६ ॥ शरीरे शान्तमिति ।

  • बुद्धिपूर्वकमिति भावः ।

वनं एल्य प्राप्य शरीरे लेशमनुभूवापि + दुःखेन दुःखं दुःखपरंपरामित्यर्थ:-ति. सीतासन्निधानात् सर्वं शान्तम् । अद्य सीता. वियोगात् पुनरुदीर्ण-वृद्धि प्राप्तम्-ति. शून्यं निर्जन वनमेय स्थितस्य मम शरीरे शान्तं - शरीरक्लेशेन विस्मृतम्-गो.. सर्वा-ङ. 2 केशम्-ज.