पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

420 सीताऽन्वेषणम् [अरण्यकाण्ड: 2 'इतीव विलपन् रामः सीतादर्शनलालसः ॥ ११ ॥ न ददर्श सुदुःखार्तः राघवो जनकात्मजाम् । अनासादयमानं तं सीतां दशरथात्मजम् ॥ १२ ॥ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थं उवाच हितकाम्यया ॥ १३ ॥ मा विषादं महाबाहो ! कुरु यत्नं मया सह । 4 कुरु यनमिति : अन्वेषण इति शेषः ॥ १३ ॥ इदं च हि वनं, शूर ! बहु कन्दरशोभितम् ॥ १४ ॥ प्रियकाननसंचारा * वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यात्, नलिनीं वा सुपुष्पिताम् || सरितं वाऽपि संग्राप्ता मीनवजुल सेविताम् । 5 वनोन्मत्ता-- 'स्नातुकामा निलीना स्यात् असकामा वने कचित् || प्रियः काननसंचारः यस्याः सा तथा । वनसंचारवशादुन्मादवती । अत एव सा वनादिकं प्राणापायनिमित्त- भूतं प्रविष्टा स्यात् । संभावने लिङ् । बञ्जुल:--निचुलः ॥ “वित्रासयितुकामा वा लीना स्यात् कानने कचित् । ↑ जिज्ञासमाना वैदेही त्वां मां च, पुरुषर्षभ ! ॥ १७ ॥ तस्या ह्यन्वेषणे, श्रीमन् ! क्षिप्रमेव यतावहे ।

  • वनं – जलं, 'जीवनं भुवनं वनम् इत्यमरः; वनेन-वनदर्शनेन

उन्मादवती- अतिप्रियसलिलेत्यर्थः । यथाक्रमं तस्कार्यमाह - सेति-गो. + जिज्ञास- माना - स्वस्मिन् आवयोः प्रीति परीक्षितुकामा इति वा । 4 महाबुद्धे-ज. 3 विषीद-ङ. ' इत्येवं-ड.. 2 शोकपरायणम्-ज. 5 इदं कुत्रचिदधिक-ङ, ज. ' इदं कुत्रचिन्न-ज.