पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुःसहेन च वेगेन शुशोच च भृशं भ्रमन् 417 हा लक्ष्मण ! महाबाहो ! पश्यसि त्वं प्रियां क्वचित् ? हा प्रिये ! व गता ? भद्रे! हा सीतेति पुनः पुनः ॥ ३५॥ इत्येवं विलपन् रामः 'परिधावन् वनाद्वनम् । क्वचिदुद्भ्रमते 'वेगात् क्वचिद्विभ्रमते बलात् ॥ ३६ ॥ 'उद्भमविभ्रमौ प्रागुक्तार्थों ॥ ३६ ॥

६० मर्ग:] + क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः ।

  • स वनानि नदीः शैलान् गिरिप्रस्रवणानि च ।

काननानि च वेगेन ' भ्रमत्यपरिसंस्थितः ॥ ३७ ।। अपरिसंस्थितः - अप्रतिष्ठितः भ्रमति स्म ॥ ३७ ॥ तथा स गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ S मैथिलीं प्रति ! ★ अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८ ॥ इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षष्टितमः सर्गः अनिष्ठिताशः —–अनिवृत्ताशः । मार्गणे -अन्वेषणे । पुनः पुनः परिश्रमं चकार । अदुर्ग (३८ १/२) मानः सर्गः ॥ ३८ १/२ ॥ इति श्रीमद्रामायणामृत कतकटीकाय अरण्यकाण्डे षष्टितमः सर्गः

  • चतुर्थ लोकटिप्पणी द्रष्टव्येत्यर्थ: ।मत्त श्वाभाति, मत्तवत् परिभ्रमति

चेत्यर्थ:- गो. + सुगमानि वनानि दुर्गमाणि-काननानि - गो. 8 मैथिली प्रति-मैथिलीलामं प्रति-गो. पर्यधावत्-ङ. RAMAVANA - VOL. IV 2 योगात्-ज. 3 भ्रमन् विपार-ड.. 4 अधिष्ठिताश:- ङ. 27