पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
12
[अरण्यकाण्ड:
विराधनिरोध:



इयं नारी वरारोहा मम भार्या भविष्यति ।
युवयोः पापयोवाहं पास्यामि रुधिरं मृधे ॥ १३ ।।

 वां-युवयोः वासः | वां चेति चकारः प्रमदया च सहेति व्यत्यस्य योजनीयः [१] । अन्यथा ' न च वाहे 'ति निषेधतः वामा- देशाभावप्रसङ्गः । आर्ष एव च सम्बन्धप्रयोजक आदेशः । मुनि- दूषणाविति-मुनिवेषविरुद्धशरचापादिधारणात् । अत एव पापयो- रित्यप्याह । मृघे-युद्धे ॥ १३ ॥

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः ।
श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा ॥ १४ ॥
सीता प्रावेपतोद्वेगात् प्रवाते कदली यथा ॥ १५ ॥

 सगर्वित– भावे निष्ठा, सगर्वमिति यावत् ।[२] उद्वेगात्-भयात् ॥ १५ ॥

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम् ।
अत्रवल्लिक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १६ ॥

 परिशुष्यता-शोकसङ्कुचितेन मुखेन उपलक्षितः ॥ १६ ॥

पश्य, सौम्य ! नरेन्द्रस्य जनकस्यात्मसम्भवाम् ।
मम भार्या शुभाचारां विराधाङ्के
[३].प्रवेशिताम् ॥ १७॥

अत्यन्तसुखसंवृद्धां राजपुत्र' यशस्विनीम् ।
यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ १८ ॥



  1. प्रमदया सह वासश्च वामादेश आर्ष:- गो.
  2. अशक्यनिरोधदुःखादि-जन्यमनोवैकुव्यं - उद्वेगः ।
  3. प्रवेषिताम् ङ. झ