पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सर्ग:] इति ब्रुवाणं सावेगं भीतोऽसौ लक्ष्मणोऽब्रवीत्

विगर्हमाणोऽनुजमार्तरूपं क्षुधा 'श्रमाच्चैव पिपासया च । विनिःश्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९ ॥ स्वमाश्रमं संप्रविगाद्य ' वीरः विहारदेशाननुसृत्य कांश्रित एतत्तदित्येव निवासभूमौ S प्रहृष्टरोमा व्यथितो बभूव ।। २० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टपञ्चाशः सर्गः श्रमात् - बहुदूरघावनजात् । प्रतिश्रयं प्राप्येत्यादि वक्ष्यमाणा- नेक(५९-६३)सर्गार्थसंक्षेपः | प्रतिश्रयं-स्वाश्रयसमीपदेश समीक्ष्य शून्यमिति । सीताशून्यमित्यर्थः । तं प्रतिश्रयमित्यनुरुर्षः । अनन्तरं स्वं आश्रमं संप्रविगाह्य, तमपि शून्यं समीक्ष्य, ततः सीतायाः कांश्चित् विहारदेशान् अनुसृत्य-विचित्य तत्रत्य- निवासभूमौ क्रीडास्थाने । एतत्तदिति- तादृशमेतादृशमिति विहार- विशेषं स्मृत्वा हृष्टरोमाः शोकेन प्रव्यथितो बभूव । नारी (२०)- मानः सर्गः ॥ १९-२० ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टपञ्चाशः सर्गः

  • लोकद्वयमेकान्वयं, वक्ष्यमाणानेक (५८-६३) सर्वार्थसंग्रहरूपम्- गो.

+ स्वकर्तव्यभ्रंशपरिज्ञानात् आर्तरूपं लक्ष्मणम् । + क्षुत्पिपासयो: बहुदूरभावनादिश्रम- जन्यत्वात् श्रमशब्दस्य मध्ये प्रयोगः पञ्चम्यन्तता च । प्रष्टरोमा सन् व्यथितो बभूव - गो. 1 श्रमेणैव-ज. 2 विषण्ण: ज. 403 3 वीरः- कु. 26*