पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

292 I FRIP DIEN इन्द्रेण सौतायै हविःप्रदानम् [प्रक्षिप्तः सर्गः] प्रवेशितायां सीतार्थीलङ्कां प्रति पितामहः । तदा प्रोवाच देवेन्द्र परितुष्टं शतक्रतुम् ॥ १ ॥ त्रैलोक्यस्य हितार्थाय रक्षसामहिताय च । कङ्क प्रवेशिता सीता रावणेन दुरात्मना ॥२॥ पतिव्रता महाभागा नित्यं चैव सुखैषिता । अपश्यन्ती च भर्तारं पश्यन्ती राक्षसीजनम् ॥ ३ ॥ राक्षसीमिः परिवृता भर्तृदर्शनलालसा । निविष्टा हि पुरी कङ्का तीरे ननदीपतेः ॥ ४ ॥ कथं वास्यति तां राम तत्रस्थां तामनिन्दिताम् । दुःख सचिन्तयन्ती सा बहुश: परिदुर्लमा ॥ ५ ॥ प्राणयात्रा मकुवाणा प्राणांस्त्यक्ष्यत्य संशयम् । स भूयः संशयो जातः सीतायाः प्राणसंक्षये ।। ६ ।। सत्वं शीघ्रमितो गरवा सीतां पश्य शुभाननाम् । प्रविश्य नगरी कडां प्रयच्छ इविरुत्तमम् ॥ ७ ॥ एवमुक्तोऽथ देवेन्द्रः पुरीं रावणपालिताम् । आगच्छविया सा भगवान् पाकशाननः ॥ ८ ॥ निद्रां चोवाच गच्छ त्वं राक्षसान् संप्रमोहय । सा तथोक्ता मघवता देवी परमहर्षिता ॥ ९ ॥ देवकार्याथसिद्धयर्थं प्रामोहयत राक्षसान् । पतस्मिन्नन्तरे देवः सहस्राक्ष शचीपतिः ।। १० ।। आससाद वनस्थां तां वचनं चेदमब्रवीत्। देवराजाऽस्मि भद्रं ते इह चास्मि, शुचिस्मिते ! ॥ ११ ॥ अहं त्वां कार्यसिद्धयर्थ राघवस्य महात्मनः । साहाय्य कल्पयिष्यामि मा शुचो जनकात्मजे ॥ १२ ॥ मत्प्रसादात् समुद्रं स तरिष्यति बलैः सह । मयैवेद च राक्षस्य: मायया मोहिताः शुभे ! ॥ १३ ॥ तस्मादन्नमिदं, सीते ! हविष्याश्रमदं स्वकम् । " त्वां संगृथ, वैदेहि ! आगतः सह निद्रया ॥ १४ ॥ [ अरण्यकाण्ड: