पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० सर्ग:] क्षिप्रं एतां दर्शा शंस रामायेत्याह वं प्रति पञ्चाशः सर्गः [जटायुरभियोगः] तं शब्द *मवसुतस्तु जटायुरथ शुध्रुवे । 1 निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १ ॥ अथ सीतानिवेदितापहारेण जटायुना न्यायोक्तिपूर्व रावण- निरोधः । तं शब्दमित्यादि । अपहारावेदनशब्दमित्यर्थः । अवगाय सुप्तः - अवसुप्तः ॥ १ ॥ 95011101 ततः पर्वतकूटाभः तीक्ष्णतुण्डः 'खगोत्तमः । वनस्पतिगतः श्रीमान् व्याजहार शुभ गिरम् ॥ २ ॥ दशग्रीव ! स्थितो धर्मे पुराणे सत्य 'संश्रवः | जटायुर्नाम नाम्राऽहं गृध्रराजो महाबलः ॥ ३ ॥ दशग्रीवेति संबुद्धिः । सत्यसंश्रवः - सत्यप्रतिज्ञः । सीतासंरक्षणे अहं सहायः इत्युक्तत्वात् इत्याशयः । अहं उच्यमाननामादिकः ॥ ३ ॥ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः । लोकानां च हिते युक्तः रामो दशरथात्मजः ॥ ४ ॥ किं ततः ! इत्यत आह -- राजेत्यादि ॥ ४ ॥ तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी । सीता नाम वरारोहा यां त्वं हर्तुमिच्छसि ।। ५ ।। 341 -

  • अवसप्तः - ईषत्सुप्तः - गो. भोजनोत्तरं दिवैव गाढसुप्तोऽपि-ति. वार्धक्या-

दीपसुप्त इव स्थितः । + सत्यसंश्रयः - सत्यं-'सत्यं ज्ञानमनन्तं ब्रह्म' इत्युक्तः परमात्मा संश्रय: - आलम्बनं यस्य सः - गो. निरैक्षव ज. 2 यशस्विनीम्-ड. एतदनन्तरं "भ्रातस्त्वं निन्दितं कर्म कर्तुं नाहंसि सांप्रतम् " इत्यधिकं - ङ. 5 खगेश्वर:-ङ. 'संश्रयः- ङ.