पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
338
[अरण्यकाण्डः
सीतापहरणम्

ननु नामाविनीतानां विनेताऽसि, परंतप !
कथमेवंविधं पापं न त्वं शाधि हि रावणम् १ ।। २७ ।।

 ननु नामेति प्रसिद्धौ । शाधि हीति पदद्वयम् । कथं एवंविधं हि पापं न शाधि इति ॥ २७ ॥

न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।
कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥ २८ ॥

 तत्र स्वयमेव हेतुमुन्नयति-न त्वित्यादि । अविनीतस्य पुरुषस्य अविनयकर्मणः फलं तु सद्यो न दृश्यत एव । कुत इत्यतः-कालोऽपीत्यादि । अङ्गीभवतीति । सहकारिकारणं भवतीत्यर्थः :/ पक्ति:-पाकः ॥ २८ ॥

[१] स कर्म कृतवानेतत् कालोपहतचेतनः ।
जीवितान्तकरं घोरं रामात् व्यसनमामुहि ।। २९ ।।

 अथ यः आशयः श्लोकेनास्माभिः वर्णितः [२] स एव स्पष्टीक्रियते मात्रा -स कर्मेत्यादि-रामात् व्यसनमामुङ्गीति ॥ २९ ॥

[३]हन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः ।
[४] हियेयं धर्मकामस्य धर्मपत्नी यशखिनः ।। ३० ।।

 हियेयमिति यतः अतः सकामाऽस्तु इति योजना ॥ ३० ॥


  1. स्वं-ज.
  2. ‘पतिनिग्राद्यतां ज्ञात्वा सर्वशा जोषमास्थिता' इति 17 श्लोकव्याख्यायामुक्त: अर्थ:- अश्र 'रामाव व्यसनमाप्नुहि ' इत्यत्र स्पष्ट इति भावः ॥
  3. बने राक्षसादिमिर्हुता भवेदिति मां कैकेयी वनं प्रेषितवतीति वैदेशा हृदये सर्वदा स्थितं, तदिदानीं सुप्तप्रमत्त-कुपितानां भावज्ञानं दृष्टमिति न्यायेनोद्घाटयति- हन्तेति - गो.
  4. हिये यसमै-ड.