पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
332
[अरण्यकाण्ड:
सीताधिकारः

अकुल्या न समो रामः मम युद्धे स मानुषः
तव भाग्येन [१] संप्राप्तं भजख, वरवर्णिनि ! ॥ १९ ॥

 अङ्गुल्या न समः इति । अङ्गुलिचलेनापि तुझ्यबलो न भवतीत्यर्थः ॥ १९ ॥

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना |
अब्रवीत् परुपं वाक्यं रहिते राक्षसाधिपम् ॥ २० ॥

 रहिते-रामरहिते आश्रमे स्थितं इति शेषः ॥ २० ॥

कथं वैश्रवणं देवं सर्व भूतनमस्कृतम् ।
आतरं व्यपदिश्य त्वं अशुभं कर्तु [२]मिच्छसि ॥ २१ ॥
अवश्यं विनशिष्यन्ति सर्वे, रावण! राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥ २२ ॥
अपहृत्य शर्वी भार्या शक्यमिन्द्रस्य जीवितुम् ।
न च रामस्य भार्या मां[३]. अपनीयास्ति जीवितम् || २३ ।।

जीवेचिरं वज्रधरस्य [४] हस्तात्
शचीं प्रधृष्याप्रतिरूपरूपाम् ।
न मादृशीं, राक्षस ! [५] दूपयित्वा
पीतामृतस्यापि तत्रास्ति मोक्षः ॥ २४ ॥

  [६]इयायें श्रीमद्रामायणे वाक्मीकीये अरण्यकाण्डे अष्टचत्वारिंशः सर्गः


  1. संप्राप्तं--पामिति शेषः ।
  2. महंसि-ङ.
  3. आतीय स्वस्तिमान् भवेव-ज
  4. पश्चात्-ज.
  5. भर्षसिवा-अ.
  6. अत्र स रावणोक्ती-"सप्तसप्तकवेत्ताऽहं अष्टाष्टकविभूषितः । पञ्चपश्चचतत्त्वज्ञः रावणोऽहं भजस्व माम् ॥ " - इति श्लोकः कचिपठ्यते । सकतकापव्याख्यातत्वात् प्रक्षिप्त इति ज्ञायते । तदर्थस्तु सप्तसप्तकं - षडंगसहितवेदोपवेदसहित चतुर्दशविद्यारूपं तद्वेता | अष्टाष्टक विभूषित:- षष्टिकलाभूषितः । तस्व: पचविंशतितस्वस्वरूपवेत्ता इति-ति.