पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२ सर्ग:]
283
चचार तत्र मारीच: चित्र स्वर्णमृगाकृतिः


अवतीर्य स्थात् तस्मात्त [१]तः काञ्चनभूषणात् ।
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ॥ १२ ॥
[२] एतद्रामाश्रमपदं दृश्यते कदलीवृतम् ।
क्रियतां तत्, सखे ! शीघ्रं यदर्थं वयमागताः ।। १३ ।।
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ।
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ।। १४ ।।
 [३]स तु रूपं समास्थाय महदद्भुतदर्शनम् ।
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।। १५ ।।
 [४]रक्तपद्मोत्पलमुखः इन्द्रनीलोत्पलश्रवाः ।
किञ्चिद'भ्युनतग्रीवः इन्द्रनील दलाधरः ॥ १६ ॥
[५]कुन्देन्दुवज्रसङ्काशं उदरं चास्य भास्वरम् ।

  • मधूकनिभपार्श्वच ' कञ्जकिञ्जलकसंनिभः || १७ |

वैडूर्यसङ्काशखुरः तनुजङ्घः सुसंहतः ।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं " विराजता ।। १८ ।।
मनोहरः स्निग्धवर्णः स्वैः नानाविधैर्वृतः ।
क्षणेन राक्षसो जातः मृगः परमशोभनः ।। १९ ।।


व्युनत-ज. 5 8 मयूर-ड. नीलोपम-ड. कुण्डलितं - ज. ' तलोदर:-ड.. 9 पद्म-ड.. निभोदर:- ज. 10 विराजित:- ज. ★ इन्द्र- 7 इदमर्थ

  1. तप्तकाशन- ङ.
  2. एतत्तहाश्रम-ङ..
  3. संग्रहेणोक्तं विवृणोति—स त्वित्यादिना-गो. स तु राक्षस: महदद्भुतदर्शनं
    रूप समास्थाय मणिप्रवरशृङ्गाग्रः परमशोभनो मृगः क्षणेन जात इत्यन्वयः॥
  4. रानीलोत्पल-ड.
  5. अस्य मृगरूपस्य कुन्देन्दुसंकाशं उदरमासीत् । तादृशोदर इति विपरिणतव्यम्,
    अन्यमा पूर्वापरविरोध:- गो.