पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२ सर्ग:]
281
ततस्तु तावुभौ तूर्ण रामाश्रममताम्

 चकारेणोक्तार्थमेव व्यक्तीकरोति — न हीत्यादि । रामं प्रति पराक्रम्य इदानीं लोकान्तरे वा भवान् जीवन् भूत्वा न हि प्रतिनिवर्तते । कुत इत्यत आइ-वर्तत इत्यादि । यमदण्डहतस्य ते-तव असौ रामः प्रतिरूपः - यमदण्डप्रतिरूपः यतो वर्तते तस्मादेव ॥ ३ ॥

[१] [२] किं तु शक्यं मया कर्तुं एवं त्वयि दुरात्मनि ।
एष गच्छाम्यहं, तात! स्वस्ति तेऽस्तु, निशाचर ! ॥ ४ ॥

 अथ अशक्यपरिहारं निजानर्थं शोचति—किं त्वित्यादि ॥ ४ ॥

प्रहृष्टस्त्वभवत्तेन वचनेन स [३] रावणः ।
परिष्वज्य सुसंश्लिष्टं इदं वचनमब्रवीत् ।। ५ ।।

 तेन वचनेनेति । गच्छामीति वचनेनेत्यर्थः ॥ ५ ॥

 [४] एतत्, [५]शौण्डीर्य ! युक्तं ते मच्छन्दवशवर्तिनः ।
इदानीमसि मारीचः पूर्वमन्यो निशाचरः || ६ ||

 "एतच्छौण्डीर्य ! युक्तं ते मच्छन्दवशवर्तिनः" इति प्राचीनः शौण्डीर्यं – वीर्यम् । मत्वर्थीयाजाश्रयतः तद्युक्तोऽपि हे शूरेति यावत् । मच्छन्दवशवर्तिनः – मदभिप्राय- वशवर्तिनः ते एतदेव-मद्वचनानुकरणमेव युक्तं - योग्यम् । इदानीं मारीचोऽसि इति । स्वप्रकृति प्राप्नोषीत्यर्थः । पूर्वं अन्य इति । आविष्टोन्मत्तादिवदिति शेषः ॥ ६ ॥


  1. उभयोः वधः सन्निहितः । तु - किन्तु त्वयि दुरात्मनि मया किं कर्तुं शक्य-मिस्यन्वयः । किन्नु शक्यमिति पाठे अन्वयः स्वरस एव ।
  2. किं नु-अ.
  3. राक्षस:-ज.
  4. ‘एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्' इति गो. पाठः । शौण्डीर्ययुक्तमेतत्ते भाषितं मच्छन्दादिव- मदमिप्रायादिव । मद्भाषितसदृशं भाषितमित्यर्थ:- गो. मच्छन्दात्-मद्दृष्टयेति यावत् । मदृष्टया एतदेव ते भाषितं शौण्डीर्थयुक्तमिव-इति वा ॥
  5. शौण्डीर्ययुक्तं ते मान्दादिव भाषितम्-ड.