पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८ सर्ग:]
259
तदप्यकथयत वृत्तं यत्पुरा कौशिकाश्रमे

विश्वामित्रोऽथ धर्मात्मा [१] मद्वित्रस्तो महामुनिः ॥ ३ ॥
स्वयं गत्वा दशरथं नरेन्द्र मिदमब्रवीत् ।

 मद्वित्रस्त इति । मन्निमित्तं वित्रस्त इत्यर्थः ॥ ३

[२]अद्य रक्षतु मां रामः [३] पर्वकाले समाहितः ।। ४ ।।
मारीचान्मे भयं घोरं समुत्पन्नं, नरेश्वर !

 पर्वकाले – यागकाले ॥ ४ ॥

इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ॥ ५ ॥
प्रत्युवाच महाभागं विश्वामित्रं महाबलम् ।
[४] बालो द्वादशवर्षोऽयं अकृतास्त्रश्च राघवः ॥ ६ ॥


  1. मद्वित्रस्त:-मत्तो वित्रस्त:- विशेषेण भीतः ।
  2. अयं ज.
  3. पर्वकाले- यशसुत्या काले- गो
  4. द्वादशवर्ष:-द्वादशवर्षवयस्कः । केचित्त - इदं रावणबिभीवयोक्तम्; वस्तुतस्तु ऊनषोडशवर्ष इत्येव इत्यूचु:- गो. पञ्चदशवर्षोऽपि, तथा दशरथेनानूदितोऽप्यत्यन्तबान्ययोतनाय,• अतिबालेनापीदृशं कृतं, किमधुना वाच्यम् ' इति रावणस्यात्यन्तभयोत्पादन घिया मारीचेन तथा दशरथेनोक्तमित्यनूचते- 'ऊनद्वादशवर्षोऽयं ' इति पाठान्तरम् - ति.अय राघवः ऊनद्वादशवर्षः - किश्चिन्मासोनषोडशवार्षिक इत्यर्थः । अयमर्थ:- द्वौ
    चद्रौ च द्वो चेत्येकशेषेण लब्धः । अत्र बीजं तु बालकाण्डघटकीभूते ऊन-
    षोडशवर्षों मे' इति पद्ये निरूपितम् - रा. गोविन्दराजस्तु - विश्वामित्रनयन काले रामः द्वादशवर्ष एवेत्याह—तथा हि (बाल. २०-२) - दशरथेन पित्रा 'ऊनषोडशवर्ष: ' (बा. २०-२) इत्युक्तम् । ऊनत्वं च मासेन मासत्रयेण षण्मासेवां स्यात्, न त्वेकद्विवर्षादिभिः । तस्मिन्नेव वर्षे सीताविवाहः । तदनु द्वादशवषाण्ययोध्यावासः, 'समा द्वादश तंत्राई राघवस्य निवेशने । भुजानाऽमानुषान् भोगान् सर्वकामसमृद्धिनी ॥