पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५ सर्ग:]
247
गत्वा सुदूरं मारीचस्वाश्रमं प्राप रावणः

 तौ गजकच्छपौ च महाबलत्वादादाय अन्यत्र जगाम । तदा गच्छन्नव तो शाखां च एकपादन धत्वा एव तदामिषं गजकच्छपरूपं मक्ष्यं मक्षयित्वा, अ तया शाखया प्रक्षिप्यमाणया निषादविषयं– निषाददेशं हत्वा मुनश्च वषान्मोक्षयित्वा अतुलं प्रहर्ष लेभे ॥ २९-३३

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।
अमृतानयनार्थं वै चकार [१] मतिमान् मतिम् ॥ ३४ ॥

 सः तेनैव प्रहर्षेण – आमिषभक्षणनिष दनाशनमुनिजनरक्षणसंतोषेणेत्यर्थः ॥ ३४ ॥

अयोजालानि निर्मथ्य भित्त्वा [२]रत्नमयं गृहम्
महेन्द्रभवनाद्भुप्तं आजहारामृतं ततः । ३५ ।।

 अयोजालानीति । अयशृङ्खलानिर्मितानि जालानि- आनाय्य रत्नमयगेहोपरि पक्षिजालप्रवेशपरिहागय बद्धानि बलानिर्मथ्य, छित्वा - रत्नमयं गेहं च भित्त्वा गुप्तममृतं महेन्द्रभवनादाजहार ॥ ३५ ॥

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ॥ ३६ ॥

 सुपर्णकृतलक्षणं- सुपर्णेन कृतं भनेकमहाशाखारूपं लक्षणं- चिह्नं यस्य स तथा ॥ ३६॥

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।
ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ॥ ३७ ॥


  1. गमने-ङ
  2. रत्नगृहं वरम्-ज.