पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
238
[अरण्यकाण्ड:
सीतापहरणोपदेशः



इन्द्रेणेवोत्तमं सस्यं आहतं [१] त्वमवृष्टिभिः [२]
रक्षसां [३] भीमरूपाणां सहस्राणि चतुर्दश ॥ ९ ॥
निहतानि शरैः तीक्ष्णै: [४]तेनैकेन पदातिना ।
अर्धाधिक मुहूर्तेन खरच सहदूषणः ॥ १० ॥
ऋषीणामभयं दत्तं कृतक्षेमाच दण्डकाः ।

 किमर्थं दण्डकारण्यं प्रविष्टः इत्यस्योत्तरं - - ऋषीणामित्यादि ॥

एका कथंचिन्मुक्ताऽहं [५]परिभूय महात्मना ॥ ११ ॥
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ।
भ्राता चास्य महातेजाः [६]गुणतः तुल्यविक्रमः ॥ १२ ॥
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ।
[७]अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥ १३ ॥
रामस्य दक्षिणो बाहुः नित्यं प्राणो बहिश्वरः ।
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ॥ १४ ॥
धर्मपत्नी प्रिया भर्तुः नित्यं प्रियहिते रता ।
सा सुकेशी सुनासोरुः सुरूपा च यशखिनी ।। १५ ।।
देवतेव वनस्यास्य राजते श्रीरिवापरा |
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ॥ १६ ॥
सीता नाम वरारोहा वैमनोज्ज्वलवर्णाभा-ङदेही तनुमध्यमा ।
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी || १७ ।।



  1. स्वतिवृष्टिभिः-ड..
  2. अश्मवृष्टिभिः -करकामयवर्षैः-गो.।
  3. भीमवीर्याणां-ज.
  4. रामेणाविष्ट कर्मणा-ङ.
  5. पारभूता-ड.
  6. गुणात् तसुक्ष्य -ङ.
  7. अमर्षीं- रामापराधासहनशील:-रा.