पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
236
[अरण्यकाण्ड:
सीतापहरणोपदेशः



इति स्वदोषान् परिकीर्तितांस्तया
समीक्ष्य बुद्धया क्षणदाचरेश्वरः ।
धनेन दर्पेण बलेन चान्वितः
[१] विचिन्तयामास चिरं स रावणः ॥ २४ ॥

 इत्याषें श्रीमद्रामायणे बाल्मीकीये अरण्यकाण्डे त्रयस्त्रिंशः सर्ग:


 घनेन -- अक्षयकोशसंपत्त्या दर्पेण – राजत्वा हङ्कारेण बलेन- प्राणबलेन चतुरङ्गबलेन च । चिरं चिन्तयामासेति । मारीच: मा स्म कलहप्रवृत्तो भूरिति ब्रूने, इयं तु कलहार्थमेव प्रोत्साहयति । किमत्र कर्तव्यमिति चिन्तयामासेत्यर्थः । भार(२४) मानः सर्गः ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे त्रयस्त्रिंशः सर्गः


चतुरिंशः सर्गः

[सीतापहरणोपदेशः]

ततः [२] शूर्पनखीं [३] क्रुद्धां ब्रुवन्तीं परुषं वचः ।
[४] अमात्यमध्ये संक्रुद्धः परिपप्रच्छ [५] रावणः ॥ १ ॥

 अथ रावणः कार्यनिश्चयाय वृत्तान्तमेव सम्यगवगच्छति । ततः शूर्पनखीमित्यादि ॥ १ ॥



  1. विचिन्तने हेतुरुक्त:-स्वदोषान् परिकीर्तितानिति । तदुक्तदोषाणां स्वस्मिन्
    भानादेव चिन्ता |
  2. शूर्पणखां-ज.
  3. वृड्डा-ज.
  4. अमात्यमध्ये परुषं ब्रुवन्तीमिति चान्वयः । अत एव संक्रुद्ध इत्यपि।
  5. राक्षसः-ड.