पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३० सर्ग: ]
211
रामोऽपि रोषितस्तीव्रं निजघान रणे खरम्



 [१]विहलः स कृतो बाणैः खरो रामेण संयुगे ॥ २२ ॥
मत्तो [२] रुधिरगन्धेन तमेवाभ्यद्रवद्रुतम् ।

 विह्वलः कृतः इति । परवशः कृतः न मृतः । तदेव प्रदर्श्यते - मत्त इत्यादि । तमेव — राममेव ॥ २२ ॥

तमापतन्तं [३] संरब्धं [४] कृतास्त्रो रुधिराहुतम् ॥ २३ ॥
 [५] अपासर्पत् [६]प्रतिपदं किंचित् त्वरितविक्रमः ।

 अपासर्पत् प्रतिपदं किञ्चिदिति । अत्यासक्तौ धनुर्व्यापारायोग्य- त्वात् तेन च परवशतया आघावनात् तदभिमुखं वर्तमान एव धनुर्व्यापार- योग्यतायें द्वित्राणि पदानि पृष्ठतोऽपासर्पदित्यर्थः । एतेन च रावण- तुल्यबलत्वं स्वरस्य प्रख्यापितम् । न हि सेन्द्रैर्देवैरपि रामधनुश्छेदः, रामसहस्र बाणसहनं, रामचालनं च सुशकम् । एवं बलमपि । तन्मूलत्वं मूलमुभयोः खररावणयोः ।। २३ ।।



  1. विकल:- ज.
  2. रुधिरगन्धेन उपलक्षितः- गो. राक्षसत्वेन रुधिरगन्धाघ्राणनेन मत्तः -जातमद इति वा ।
  3. संक्रुद्धं - ज.संप्रेक्ष्य - ङ.
  4. रुधिरोधपरिष्ठतम्-ङ.
  5. तं खरं प्रतिपदं -तत्स्थानं प्रति किञ्चिदपासर्पत्-बाणप्रहारयोग्यान्तराललाभाय
    अपासर्पयत, अन्तर्भावितणिजर्थ: । अन्यथा तमिति द्वितीया न स्यात्, पञ्चम्यापत्तिश्च ;
    वृव्यध्याहारे तु गौरवम् । तं-तस्मात्-गो. तं, दृष्ट्वा-ति. रा. अपसर्पणनिमित्तमाइ--
    सहितास्त्रत्वात् अस्त्रमोचनावकाशलाभाय अपासर्पदिति भावः । निमित्तान्तरमाह– रुधिरानुतमिति । तत्स्पर्शबीभत्सेनापसर्पणमित्यर्थः । यद्यपि रणे किञ्चिदपसपणं शू'स्यायुक्तं; तथाऽपि 'सर्वतो बलवती ह्यन्यथाऽनुपपत्ति:' इति न्यायेन अपसर्पणं विना तत्संहारहेत्वलाभादपसर्पर्ण न दोष इति हृदयम्-गो. वस्तुतस्तु -- भयात्
    अपमर्पणमेव दोषः । शूराः खलु रणे विचित्रगतिभेदं प्रदर्शयन्त्येव परेषां प्रहरणाय ।
    अत: अत्रापि, इतोऽप्यति शयेन युद्धमन्नाह रूपत्वादस्याप मर्पणस्य नायं दोषः। एतत्सूचनायैव अनुपदमेव 'त्वरितविक्रमः' इति कथ्यते। ||
  6. द्वित्रपदं-च.