पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
194
[अरण्यकाण्ड:
त्रिशिरोवध:



हतशेषास्ततो भग्नाः राक्षसाः खरसंश्रयाः ।
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ताः मृगा इव ।। १९ ।।

 हतावशिष्टाः इति । शतं पञ्चाशद्वा अत्यल्पावशिष्टमित्यर्थः [१]||

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः [२]स्वयम् ।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा || २० ||

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे सप्तविंशः सर्ग:


अनाक (२०) मानः सर्गः ॥ २० ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे सप्तविंशः सर्गः


अष्टाविंशः सर्गः

(रामखरसंग्राम:)

निहतं दूषणं दृष्ट्वा रणे [३] त्रिशिरसा सह ।
खरस्याप्यभवत् त्रासः दृष्ट्वा रामस्य विक्रमम् ।। १ ।।

 अथ खररामसंग्रामः । निहतमित्यादि ॥ १ ॥

स दृष्ट्वा राक्षसं सैन्यं अविषह्यं [४]महाबलः
हतमेकन रामेण त्रिशिरोदूषणावपि ॥ २ ॥

 रक्षसामिदं राक्षसम् । हतं दृष्ट्वेत्यन्वयः ॥ २ ॥



  1. अनन्तरसगें 'तद्वलं हतभूयिष्टं ' (३) इति वक्ष्यमाणत्वादेवं व्याख्यातम् ।
  2. त्वरन् च.
  3. त्रिशिरसा सह निहतं दूषणं इत्यन्वयः । उभावपि इतौ दृा-इत्यर्थे सहशब्दप्रयोगः ।
  4. महाबलम्-ड..