पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग:]
181
गन्धर्वास्त्रेण तत् सैन्यं नाशयामास राघव:



निवृत्तास्तु पुनः सर्वे दूषणाश्रय [१]निर्भयाः ।
राममेवाभ्यधावन्त [२]सालतालशिलायुधाः ॥ ३२ ॥

 दूषणाश्रयबलेन निर्भया:- भयरहिताः || ३२ ।।

शूलमुद्गरहस्ताश्च चापहस्ता महाबलाः ।
सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे || ३३ ॥
दुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।
तद्धभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥ ३४ ॥
रामस्य च महाघोरं पुनस्तेषां च रक्षसाम् ।
ते समन्तादभिक्रुद्धाः राघवं [३]पुनरभ्ययुः ॥ ३५ ॥
तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः ।
राक्षसैः उद्यतप्रासैः शरवर्षाभिवर्षिभिः ।। ३६ ।।
स कृत्वा भैरवं नादं अस्त्र परमभास्वरम् ।
संयोजयत गान्धर्व राक्षसेषु महाबलः ॥ ३७॥

 सर्वाः दिश: प्रदिशश्च समावृताः दृष्ट्वा स रामः भैरवं नादं कृत्वा, सर्वतो रक्षोभिः शरवर्षाभिवर्षिभिः आवृतत्वात् कालोचितं परम- मास्वरं गान्धर्वमस्त्रं राक्षसेषु विषये संयोजयत-समयोजयत् धनुषीत्यर्थः ।।

ततः शरसहस्राणि निर्ययुः चापमण्डलात्
सर्वा दश दिशो बाणैः[४] आवार्यन्त समागतैः ।। ३८ ।।



  1. 'दुर्जया:- ङ.
  2. सालतालौ–वृक्षविशेषौ ।
  3. पुनरार्दयन्- ज.
  4. आपूर्यन्त--च. ज.