पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग:]
176
रामं सचापं संक्रुद्धं खरोऽप्येत्य म्यलोकयत्



[१] दक्षस्येव क्रतुं हन्तुं उद्यतस्य पिनाकिनः ।
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् || ३६ ।।
दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ||
तत्कार्मुकः आभरणैः ध्वजैव
तैः वर्मभिश्चाग्निसमानवर्णैः ।
बभूव सैन्यं पिशिताशनानां
सूर्योदये + नीलमिवाभ्र [२]वृन्दम् ॥ ३७ ||

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुर्विंशः सर्गः

नीलाम्रवृन्दस्थानीयाः राक्षसाः, सूर्योदयः सूर्यकिरण संबन्धः,
तत्स्थानीयः कार्मुकादिसंबन्धः | साल (३७) मानः सर्गः ॥ ३७॥

 इति श्रीमद्रामायणामृतकतकटी कायां अरण्यकाण्डे चतुर्विंश: सर्ग:


पञ्चविंशः सर्गः

[खर सैन्यविध्वंसनम् ]


[३] अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् ।
ददर्शाश्रममागम्य खरः सह पुरःसरैः ।। १ ।।

 अथ राक्षसैः रामस्य तुमुलं युद्धम् । अवष्टव्धधनुमित्यादि । उकारान्तोऽप्यस्ति धनुश्शब्द इति आदावेवोक्तम् ॥ १ ॥



  1. दक्षस्येति क्रोधातिशयमात्रे दृष्टान्त:- गो.
  2. जाडम्-व. ज..
  3. अवष्टब्धधनुं - संपूर्णस्वावीनधनुष्मन्त मिति भावः ।