पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ सर्ग:]
173
तत्र देवास्सगन्धर्वा आययुः तद्दिवृक्षवः



आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।
दृष्ट्वा सर्वाणि भूतानि भयात् विव्यथिरे तदा ॥ २५ ॥

 आविष्टं तेजसेति । वैराजेन वैष्णवेन क्षात्रेण तेजसा इति यावत् । एतेन सहजस्वभावः भगवतः ब्राह्म एव, क्षात्रस्तु स्वेच्छया कार्याय भगवता स्वीक्रियते इति स्पष्टम् । अत एव भूतानि मयात् विव्यथिरे इति ॥ २५ ॥

रूपमप्रतिमं तस्य [१]रामस्याक्लिष्टकर्मणः ।
बभूव रूपं क्रुद्धस्य रुद्रस्येव [२]पिनाकिनः ॥ २६ ॥
इति संभाष्यमाणे तु देवगन्धर्वचारणैः ।
ततो गम्भीरनिदं घोर [३]वर्मायुधध्वजम् ।। २७ ।।
अनीकं यातुधानानां समन्तात् [४]'प्रत्यदृश्यत |
'सिंहनादं विसृजतां अन्योन्यमभिगर्जताम् ॥ २८ ॥
चापानि विष्फारयतां जृम्भतां च पुनः पुनः ।
[५]विप्रघुष्टस्वनानां च दुन्दुमश्चापि निघ्नताम् ॥ २९ ॥
तेषां [६].सुतुमुलः शब्दः पूरयामास तद्वनम् ।

 जृम्भतां च पुनः पुनरिति । देहचिन्ताराहित्येन युद्धप्रवृत्तये मदकरद्रव्य स्वीकारजं जृम्भणम् । विप्रधुष्टेति । अविशब्द नार्थत्वात् अनिट् ॥ २९ ॥



  1. न किटं–कस्मैचित् खेदप्रदं कर्म व्यापारः यस्य रा. अनायासेनैव महदपि कर्म साधयत इति वाऽर्थः । नष्ट कर्म यस्येति विग्रहः ॥
  2. महात्मनः - ज.
  3. चर्मा-च. ज.
  4. प्रत्यपद्यत-च. ज.
  5. घोषः-गुमनाख्यध्वनिविशेष: 'घोषो गुञ्जनमञ्जने' इति वैजयन्ती-गो.
  6. सुबिपुल:-च. ज