पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
170
[ अरण्यकाण्ड:
रामसमुद्यमः



उद्यतानां हि युद्धार्थं येषां भवति, लक्ष्मण !
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥ ९ ॥

 न केवलं ममैवं लक्षणोपेतत्वं, अपि तु तवापीत्याह- सुप्रभ- मित्यादि । येषां आयुःपरिक्षयो भवति तेषां वदनं निष्प्रभं भवति । नैवमस्माकमिति शेषः ॥ ८-९ ॥

रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः ।
आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ।। १० ।।
अनागतविधानं तु कर्तव्यं [१].शुभमिच्छता |
[२] [३] आपदं शङ्कमानेन पुरुषेण विपश्चिता ।। ११ ।।

 अनागतस्य, अपि तु आजिगमिषितस्य अनिष्टस्य विधानं - प्रतिविधानं-परिहारः तथा । उक्तवाक्यस्यैव विवरणं - आपदमित्यादि ||

तस्माद्गृहीत्वा वैदेहीं [४]शरपाणिः धनुर्धरः ।
गुहामाश्रय शैलस्य दुर्गा पादपसंकुलाम् ॥ १२ ॥

 शैलस्य गुहामिति । आश्रमं हित्वेति शेषः ॥ १२ ॥

प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ।
[५] शापितो मम पादाभ्यां गम्यतां, [६]वत्स ! मा चिरम् ||



  1. जय-ङ
  2. आपदं शङ्कमानेन शुभमिच्छता विपश्चिता पुरुषेण अनागतविधानं तु कर्तव्यम्-
    इति एकमेव वाक्यं युक्तम् ।
  3. आपदा - ज.
  4. तत्रापि त्वया जागरूकेणैव भाव्य' मित्याशयेनाह शरपाणिर्धनुर्धर इति ।
  5. मया शापितोऽसि' इति वक्तव्ये 'मम पादाभ्यां इत्युक्ति: लक्ष्मणव्यवहारानुसारेण-गो.
    स्वयं युद्धे प्रोत्साहवतः लक्ष्मणरयाशयं ज्ञात्वाऽह एवम् । अत एव समनन्तर श्लोकोऽपि
    स्वरसः ।
  6. तत्र - ङ.