पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२ सर्ग:]
159
स राममाययौ तूर्ण दूषण: सेनयाऽऽवृत:



ध्वजनिखिशसंपचं किङ्किणीकविराजितम् ।
सदश्वयुक्तं सोऽमर्षात् आरुरोह खरो रथम् ॥ १६ ॥

 वैडूर्यमयौ कूबरौ यस्य स तथा । 'कूबरस्तु युगन्धरः"| मङ्गल्यैः- मङ्गलप्रयोजनैः अलङ्कारप्रयोजनैः काञ्चनैः-स्वर्णनिर्मितैः । उक्तविशेषणद्वय मत्स्यादौ सर्वत्र योज्यम् । 'किङ्किणी क्षुद्र- घण्टिका ॥ १४-१६॥

[१] निशाम्य तु रथस्थं तं राक्षसाः भीमविक्रमाः ।
तस्थुः संपरिवार्यैनं दूषणं च महाबलम् ॥ १७ ॥
[२][३] खरस्तु तन्महत् सैन्यं रथवर्मायुधध्वजम् ।
निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान् ॥ १८ ।।

 खरस्तु तन्महत् सैन्यं स्थवर्मायुषध्वजम् । निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्' इति पाङ्कः पाठः ॥ १८ ॥

ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम् ।
निर्जगाम जनस्थानात् महानादं महाजवम् ॥ १९ ॥

 ततस्तदिति । उभयनियोगानन्तरमित्यर्थः । रक्षसामिदं राक्षसम् ।। १९ ।।

मुद्गरैः पट्टसैः शूलैः सुतीक्ष्णैच परश्वधैः ।
खड्गैः चक्रैश्च हस्तस्यैः भ्राजमानैश्च तोमरैः ॥ २० ॥



  1. अयं श्लोकः ज पुस्तके कुण्डलितः ।
  2. तन्महत्सैन्यं प्रेक्ष्य तत् प्रतिनिर्यातेत्यब्रवीत् । दूषण: – दूषणश्चेत्यर्थ:-ति.
    सरो दूषणश्च स्थादिविशिष्टं सैन्यं सर्वराक्षसांश्च प्रेक्ष्य निर्यातेत्यब्रवीत् - रा.
  3. खरस्तु तान् महेष्वासान् घोरवर्मा-शुभध्वजान् । निर्यातेत्यब्रवीद्धृष्टः रथस्थः
     सर्वराक्षसान्-ड. झ.