पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
150
[अरण्यकाण्ड:
चतुर्दशरक्षोवधः



क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
त्वमेव हास्यसे प्राणान् अद्यास्माभिर्हतो युधि ॥ १२ ॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।की
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥ १३ ॥

 स्थातुमपि का हि ते शक्तिरिति योजना ॥ १३ ॥

एहि बाहुप्रयुक्तैर्नः परिघैः शूल [१]पट्टिशैः ।
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥ १४ ॥
इत्येवमुक्ता [२]संक्रुद्धाः राक्षसास्ते चतुर्दश [३].।
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ।। १५ ।।
तानि शूलानि काकुत्स्थः [४] समस्तानि चतुर्दश । 46
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ।। १६ ।।

 तावद्भिरेवेति । युगपत् चतुर्दशरक्षोविमुक्तचतुर्दशशूल संख्या कै रित्यर्थः ॥ १६ ॥

ततः पश्चान्महातेजाः [५].नाराचान् सूर्यसंनिभान् ।
जग्राह परमक्रुद्धः चतुर्दश शिलाशितान् ॥ १७ ॥

 शिलाशितान्-शाणोपलसुनिघृष्टानित्यर्थः ॥ १७ ॥

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ।
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ॥ १८



  1. पट्टसै:- ङ.
  2. संरब्धाः-ङ,
  3. पतदनन्तरं - उच्चतायुधनिस्त्रिंशाः राममेवा दुद्रुवुः-इत्यधिकम् ङ. ज
  4. समस्तानि-युगपदागतानि - रा. एतेन रामहस्तलाघवं वर्णितं भवति ।
  5. नाराचान्-अफलकान् बाणान्, शिलाशितान्-शिलास्वपि शितान्-शिलानिर्भेद-क्षमानित्यर्थ:- गो