पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४ सर्ग:
147
प्रेषयामास रामस्य वषार्थ राक्षसान् खर:



[१]मनोरथोऽयमिष्टोऽस्याः भगिन्या मम, राक्षसाः !
शीघ्रं संपाद्यतां तौ च प्रमथ्य स्वेन तेजसा [२]॥ २४ ॥
इति प्रतिसमादिष्टाः राक्षसास्ते चतुर्दश
तत्र जग्मुः तया सार्धं घना वातेरिता यथा ॥ २५ ॥

[३] [४]ततस्तु ते तं समुदग्रतेजसं

[५]तथाऽपि तीक्ष्णप्रदराः निशाचराः ।
न शेकुरेनं सहसा प्रमर्दितुं
वनद्विपा दीप्तमिवाग्निमुत्थितम् ॥ २६ ॥

इत्याचें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे एकोनविंशः सर्गः



 तीर्ण (२६)मानः सर्गः ॥ २६ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकोनविंशः सर्गः



विंशः सर्गः

[चतुर्दशरक्षोवध:]

ततः शुर्पणखा घोरा राघवाश्रममागता ।
रक्षसामाचचक्षे तौ भ्रातरौ [६] सह सीतया ॥ १ ॥



  1. अस्या अयं मनोरथः मम च इष्टः-संमत इत्यर्थः-गो. हे राक्षसाः ! मम
    भगिन्या: इष्टोऽयं मनोरथः शीघ्रं संपाद्यताम्-रा.
  2. एतदनन्तरं -'युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे। इयं प्रहृष्टा मुदिता रुधिरं ऋषि पास्यति ॥' इत्यधिकम् - ङ. ज. झ.
  3. प्रदरा:- बाणा: 'प्रदरा भङ्गनारी-रखनाणा: 'इत्यमरः । तथा तीक्ष्णप्रदरा अपीति योज्यम् । तमेनमित्यन्वयः । उस्थितं-राक्षसान् दृष्ट्वा अभिमुखमुद्रतमिति रामविशेषणम् । उत्तरसर्गसंग्रहोऽयं श्लोकः- गो. अस्य लोकस्य अनन्तरसर्गाचश्लोकविरुद्धत्वात् उत्तरसर्गसंग्रहोऽयं श्लोक इत्युक्तम् । दृश्यते च बहुषु सर्गेष्वेवम् ।
  4. अयं श्लोकः प्रतीक्ष्ण-झ. पुस्तके नास्ति
  5. तथा सुतीक्षण ड
  6. तौ भ्रातरौ सीतां च तेभ्यो दर्शयामांसेति तात्पर्यम् ।