पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७ सर्ग:]
135
मोहिता रामरूपेण तमैच्छत् सा निजं तिम्


साऽब्रवीत् वचनं श्रुत्वा राक्षसी मदनार्दिता ।
श्रूयतां, राम! वक्ष्यामि तत्त्वार्थ वचनं मम ॥ २१ ॥
अहं शूर्पणखा नाम राक्षसी [१] कामरूपिणी ।
अरण्यं विचरामीदं एका सर्वभयङ्करा ॥ २२ ॥
[२] रावणो नाम मे भ्राता [३] बलीयान् राक्षसेश्वरः ।
[४]वीरो विश्रवसः पुत्रः यदि ते श्रोत्रमागतः ॥ २३ ॥

 यदि ते श्रोत्रमागतः इति । प्रायेण तं श्रुतवान् भवेः इत्यर्थः ॥

प्रसिद्धनिद्रश्च सदा कुम्भकर्णो महाबलः ।
[५] विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ।
प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ ॥ २४ ॥

 सदा प्रसिद्धनिद्रः । भ्रातरौ खरदूषणाविति । त्रिशिरसः उपेक्षणं विभीषणवत् अराक्षसस्वभावत्वात् ॥ २४ ॥

तानहं समतिक्रान्ता, राम ! त्वा पूर्वदर्शनात् ।
समुपेताऽसि [६] भावेन भर्तारं पुरुषोत्तमम् ॥ २५ ॥
अहं [७] प्रभावसंपन्ना खच्छन्दबलगामिनी ।
चिराय भव मे भर्ता सतिया किं करिष्यसि ।। २६ ।।

 प्रायेण तान् रावणादीन् भ्रातॄन् समतिक्रान्ता, त्वदभिसरणे तन्निमित्तमयरहितेत्यर्थः । अत्रैव वाक्ये तत्रापि हेतुः—तानहं सम- तिक्रान्ता - वीर्यादिना तेभ्योऽधिकेत्यर्थः । हे राम! त्वा-त्वां



  1. सर्वभयंकरोति वक्ष्यमाणरतिप्रतिबन्धकनिवारणक्षमता उक्ता- गो.
  2. काऽसीति प्रभस्योत्तर मुक्ता कस्येत्यस्य प्रश्नस्योत्तरमाह- रावण इत्यादिना-गो.
  3. यदि ते श्रोत्रमागतः - ज.
  4. सोऽयं-ङ.. ज.
  5. इदमर्थं क्वचित् व्यक्तमपि गोविन्दराजीयरामायणशिरोमणिसम्मतम् ।
  6. भावेन - हृदयेन, रत्याख्यभावेन वा || प्रभावसंपन्ना-प्रकृष्टेन भावेन- शृङ्गारेण संपन्ना-ति.
  7. चिराय-बहुकालपर्यन्तम् ।