पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
126
अरण्यकाण्ड:
हेमन्तवर्णनम्



 खर्जूरपुष्पाक्कृतिभिरिति । पीतवर्णैरित्यर्थः । कनकप्रभा इति । परिणतनालपत्रत्वात् ॥ १७ ॥

मयूखैरुपसर्पद्भिः [१] हिमनीहारसंवृतैः ।
दूर [२]मभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८ ॥

 हिमातिशयात्मको नीहारः वृक्षपर्वताद्यदर्शनसंपादनक्षमः ॥

 [३].[४]अग्राह्मवीर्यः पूर्वाह्ने मध्याह्ने स्पर्शतः सुखः ।
[५]संरक्तः किञ्चिदापाण्डुः आतपः शोभते क्षितौ ।। १९ ।।
अवश्यायनिपातेन किञ्चित् प्रक्लिन्नशाद्वला ।
वनानां शोभते भूमिः निविष्टतरुणातपा ॥ २० ॥

 अवश्यायः - हिम्म् || २० ॥

[६]स्पृशंस्तु विपुलं शीतं उदकं द्विरदः सुखम् ।
अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ।। २१ ।।

 प्रतिसंहरत इति । स्पर्शशैत्यवशादिति शेषः ॥ २१ ॥

एते हि [७]समुपासीनाः विहगा जलचारिणः ।
नावगाहन्ति सलिलं अप्रगल्भा इवाहवम् ॥ २२ ॥



  1. हिमनीहारैः—शीतलनी हारैः--गो. हिमैनहारेश्व- रा. हिमबिन्दुभि:-ती
  2. मप्यु-ङ. ज.
  3. आग्राह्यवीर्यः – ईषद्ग्राह्योष्णः-ति.अग्राह्यवीर्यः – अग्राह्यौष्ण्यः ;सुख-
    मुद्दिश्य स्पृशन्नपि-रा. ईषदर्थे वा नज्, अनुदरा कन्येतिवत्- गो
  4. आग्रा-ङ. ज.
  5. संसक्त:- ङ. ज.
  6. विलं– भृशं शीतलं उदकं स्टेशन् वन्यो द्विरदकरं सुख प्रतिसंहरते।
    तृषाशमनापेक्षयाऽपि करप्रतिसंहार एव वरमिति भावनया' सुखं ' इत्युक्तिः ।
  7. समुपासीनाः जलसमीपदेशमिति शेष:-ति.