पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
116
अरण्यकाण्ड:
पञ्चवटीनिवासः



आश्रमः कतरस्मिन् नः देशे भवति संमतः ॥ ३ ॥
रमते यत्र वैदेही त्वमहं चैव, लक्ष्मण !
तादृशो दृश्यतां देशः संनिकृष्टजलाशयः ॥ ४ ॥
[१] वनरामण्यकं यत्र स्थलरामण्यकं तथा ।
संनिकृष्टं च यत्र स्यात् समित्पुष्प [२] कुशोदकम् ॥ ५ ॥

 वनस्य रामण्यकं रमणीयता तथा ॥ ५ ॥

एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः ।
[३]सीतासमक्षं काकुत्स्थं इदं वचनमब्रवीत् || ६ ||

 संयताञ्जलिरिति-बद्धाञ्जलिपुटः इति यावत् ॥ ६ ॥

परवानसि, काकुत्स्थ ![४] त्वयि वर्षशतं स्थिते ।
स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ ७ ॥

 त्वयि वर्षशतं स्थित इति । चिरकालं भूष्णौ सतीत्यर्थः ॥ ७ ॥

सुप्रीतः तेन वाक्येन लक्ष्मणस्य[५] महात्मनः ।
[६]विमृशन् रोचयामास देशं सर्वगुणान्वितम् ॥ ८ ॥



  1. वनरामण्यकं कुसुमामिलाषिण्याः सीताया रतिहेतुः । स्थलरामण्यकं सुखशय-
    नादिकाङ्क्षिणो रामस्य । सन्निकृष्टसमिदादिमत्त्वं शुश्रूषमाणस्य सौमित्रेः- गो.
  2. जलोदकं ङ.
  3. न च सीता त्वया हीना नचाहमपि, राघव! मुहूर्तमपि जीवावः जलान्मत्स्याविबोद्धृतौ ।
    इति आत्मनः सीतावत् पूर्णशेषत्वानुसन्धानसूचनायेदम्।
  4. त्वयि बर्षशतं स्थित इति शतशब्द आनन्त्यवचनः, सार्वकालिकं मम
    पारतन्त्र्यमिति भावः । एवं पारतन्त्र्यस्यैव मत्स्वरूपत्वेन तदनुकूलतया त्वया
    आशापने कर्तव्यमित्याह - स्वयमिति - गो. त्वयि स्थिते सत्यहं परवानस्मि ।
    अतः स्वयमेव रुचिरे देशे क्रियतां पर्णशाला' इति शेष: । इति वर्षशतम
    नेकखण्ड विस्तारकं मां वद - रा.
  5. महाद्युतिः-ड..
  6. सदृशं ङ.