पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
114
[अरण्यकाण्ड:
जटायुरसङ्गमः



 मिति यावत् । कद्रून्तु पन्नगानिंति विशिष्योक्तत्वात् । श्य नीपुत्रं, श्येनी तु ताम्रायाः काश्यपपञ्चमपत्न्याः पुत्री । ननु श्येनी शुक्यौ तु ताम्रा पुत्र्यौ भगिन्यौ, शुक पौत्र्यास्तु सुतः अरुणः, तस्य कथं श्येनी भार्या ? उच्यते-- श्येनीसन्तानपरम्परापतिता काचन श्येनी भविष्यती- त्यदोषः । विधिनिषेधयोः मनुष्याधिकारत्वाच्च अदोषः ॥ ३२ ॥

सोऽहं [१] वाससहायस्ते भविष्यामि यदीच्छसि ॥ ३३ ॥
इदं दुर्ग हि कान्तारं मृगराक्षस सेवितम् ।
सीतां च, तात! रक्षिष्ये [२] त्वयि याते सलक्ष्मणे ॥ ३४ ॥

 वाससहाय इति । वासस्थले सीतायाः रक्षणे सहायभूतः इति यावत् । यदीच्छसीति । उक्तार्थमिति शेषः । सीतारक्षणे स्वस्याप्युप- कारमाह - इदं दुर्गमित्यादि । त्वयि यात इति । श्राद्धाय मृगयादि- प्रयोजनाय आश्रमादिति शेषः ॥ ३४ ॥

जटायुषं तं प्रतिपूज्य राघवः
मुदा परिष्वज्य च सन्नतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवान्
जटायुषा संकथितं पुनः पुनः ॥ ३५ ॥
[३]स तत्र [४] सीतां परिदाय मैथिलीं
सहैव तेनातिबलेन पक्षिणा ।



  1. राम-ङ.
  2. सलक्ष्मणे त्वयि याते- कन्दमूलाधर्थ कचिद्गते सति सीतां रक्षिष्ये इत्यर्थः । अनेन जटायुषः त्रिकालशत्वं सूचितम् - रा. |
  3. सः - राघव: मैथिली सीतां परिदाय-जटायुषः परिपाल्यत्वेन
    स्वीकृत्य - रा.परिधाय--परिवार्य - ती. तत्र परिदाय - तदानीमेव न्यासीकृत्येति भावः ।
    पितृसखत्वात् स्नुषायाः श्वशुर इव तस्मिन् न्यासीकृत्येति यावत् ।
  4. रामः परिदाय मैथिलीं, सीतां परिधाय मैथिलीं, सीतासहितो रघूत्तमः- ङ.