पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ सर्ग:]
107
पञ्चवख्या: समीपे तेऽपश्यन् गृधं जटायुषम्



तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ ।
[१]तदाश्रमात् पञ्चवटी जग्मतुः सह सीतय ॥ २४ ॥

गृहीतचापौ तु नराधिपात्मजी
 [२][३]विषक्ततूणी समरष्वकातरौ
यथोपदिष्टेन पथा महर्षिणा
प्रजग्मतुः पञ्चवटीं समाहितौ ।। २५ ।।

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे त्रयोदशः सर्गः



 विषक्ते तूर्ण ययोः तौ विषक्ततूणी । अत्र पूर्वपदस्य पुंवद्भावः,उत्तरपदस्य ‘गोस्त्रियोः' इति ह्रस्वे द्विवचने सति,‘प्रथमयोः पूर्वसवर्णः' इति पूर्वसवर्णदीर्घः ॥ २५ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे त्रयोदशः सर्गः


चतुर्दशः सर्गः

[जटायुस्सङ्गमः]

अथ पञ्चवटीं गच्छन् अन्तरा रघुनन्दनः ।
आससाद महाकायं गृधं भीमपराक्रमम् । १ ।।

 अथ पञ्चवीं प्रयातस्य मध्येमार्गे जटायुम्सङ्गमः । पाचवटीमित्यादि । अन्तरा-मध्य ॥ १ ॥



  1. तमाश्रमं ङ. ज.
  2. विषक्ततूणौ-अकारान्तोऽपि तूणशब्द:-गो
  3. विषक्ततूणौ-ङ.