पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ सर्ग:]
99
अगस्त्योऽपि तदातीव हृष्टो राममपूजयत्



 वैष्णवं धनुर्द्वयमस्ति । शार्ङ्गतु मूलमूर्नावेवास्ते । नापि तद्विश्वकर्म- निर्मितम् ॥ ३१ ॥

अमोवः सूर्यसङ्काशः [१] ब्रह्मदत्तः शरोत्तमः ।
[२].दत्तौ मम [३] महेन्द्रेण तूणी चाक्षयसायकौ ॥ ३२ ॥
संपूर्णौ निशितैः वाणैः अलद्भिरिव पावकैः ।
महारजतकोशोऽयं असिः हेमविभूषितः ॥ ३३ ॥

 ब्रह्मणा दत्तः -ब्रह्मदत्तः, अत एव तदारुयश्च । तूणी चेत्यनेन धनुश्शरयोरपि इन्द्रदत्तत्वं गम्यते । महारजतं-सुवर्णम्॥ ३३ ॥

अनेन [४]धनुषा, राम! हत्वा संख्ये महासुरान् ।
आजहार श्रियं दीप्तां पुरा विष्णु: दिवौकसम् ॥ ३४ ॥
तद्धनुः तौ च तूणीरौ [५] शरं खड्गं च, मानद !
 [६]जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ ३५ ॥

 वज्रं वज्रघरो यथा इत्यनेन तावकं वस्तु त्वयैव विराजा ब्रह्मणा स्वीक्रियत इति द्योत्यते।।३५।।



  1. बालरामायणे ऐन्द्रं शरासनमिति इन्द्रदत्तत्वोक्तिस्तु छत्रिन्यायात्- गो. 'दत्तो मम महेन्द्रेण' इति पाठे ब्रह्मदत्तनामकः महेन्द्रेण दत्तः इति, आदौ विष्णवे ब्रह्मणा दत्त, मह्यं महेन्द्रेण दत्त इति वाऽर्थः । विष्णोर्दत्तं सुरोत्तमैः ' (75-13) इति किलोक्त बालकाण्डे |
  2. दत्तो-ङ. च
  3. योगेन महेन्द्रपदेन वरुण एवेत्यन्ये - ति.
  4. धनुषा-अनुरादिना - गो.
  5. शरं खड्गं च, वैष्णवाविति शेषः । वज्रं वज्रधरो यथेत्यनेन तामकं त्वमेव गृहाणेत्युक्तम्-गो
  6. एतदनन्तरं - इदं च ते तनुत्राणममेद्यं मघवा ददौ । स्पर्शयानुपमं वीर |प्रतिगृह्णीष्व मानद ! जय च संशयं प्राप्य चिन्तयिष्यसि विह्वलन् ।हरियुग्मं रथं दिव्यमुपने यति मातलिः - इत्यधिकम् - झ.