पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:
81
ततः सुतीक्ष्णवचनात् तेऽगस्त्यस्याश्रमं ययुः



 योजनानाति यावत् । दक्षिणेन गन्तत्र्यानीति शेषः । ततः महान् श्रीमान् अगस्त्यभ्रातुः आश्रमो भवति ॥ ३७ ॥

 [१] स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते ।
बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥ ३८ ॥

 स्थलीप्रायवनोद्देशत्वादि च तस्याश्रमस्य चिहत्वेनोपदेशः ॥३८॥

पद्मिन्या विविधास्तत्र प्रसन्न [२] सलिलाः शिवाः ।
हंसकारण्डवाकीर्णाः चक्रवाकोपशोभिताः ॥ ३९ ॥

 तत्रेति । आश्रनप्रदेशे इत्यर्थः ॥ ३९ ॥

तत्रैकां रजनीं व्युष्य प्रभाते, राम ! गभ्यताम् ।
दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ४० ।।

तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।
रमणीये वनोद्देशे बहुपादपसङ्कुले ।। ४१ ।।

 दक्षिणां दिशमास्थाय योजनमन्तरं - योजनावकाशं गत्वा तत्र अगस्त्याश्रमपदं द्रक्ष्यपीति शेषः ।। ४०-४१ ॥

रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह ।
स हि रम्यो वनोद्देशः बहुपादपमकुलः ॥ ४२ ॥



  1. निबिडारण्यवर्जिते इति, समस्थलप्राय इति वाऽर्थ: । ↑ तत्र - अगस्त्यभ्रात्राश्रमे ।
    वाहेत्यस्य नाम । ' अगस्त्य: प्राक् दुहितरं उपयेमे बृन्त्रताम् । यस्यां दृढव्रतो
    जात: इध्मवाहात्मजो मुनि: " इति भागवतं तु 'देबराच सुतोत्पत्ति: ' इति
    नेत्येके-ति.
  2. सलिलाशया:- ङ. ज.