पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
76
(अरण्यकाण्ड:
आश्रममण्डलवासः



तत्र कर्तुं तपोविघ्नं देवैः सर्वैः नियोजिताः
प्रधानाप्सरसः पञ्च [१] [२]विद्युच्चलितवर्चसः ।। १५ ।।


 ततः उद्विमैः सर्वदेवैः नियोजिता:-तपोविघ्नाय नियुक्ताः । विधुचलितेत आहिताम्म्यादिः चलितविधुट्व्र्चस इत्यर्थः । प्रधानाप्सरसः पञ्च इत्यनेन तत्परिवारभूताः अन्याश्च सन्तीति गम्यते । ता आगता इति शेषः ॥ १५ ॥


अप्सरोभिस्ततस्ताभिः मुनिः दृष्टपरावरः ।
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १६ ॥

 दृष्टपरावरशब्दः शतशो व्याकृतचरः || १६ ||

तात्रैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ।
तटाके निर्मितं तासां अस्मिन् अन्तर्हितं गृहम् ॥ १७ ॥

 निर्मितमिति । क्रीडार्थमिति शेषः । गृहं निर्मितमित्यनुकर्षः ॥

तथैवाप्सरसः पञ्च निवसन्त्यो यथा सुखम् ।
रमयन्ति[३] तपोयोगात् मुनिं यौवनमास्थितम् ॥ १८ ॥

तासां संक्रीडमानानां एष वादित्रनिःस्वनः ।
श्रूयते भूषणोन्मिश्रः गतिशब्दो मनोहरः ॥ १९ ॥

 भूषणोन्मिश्र इति । वलयादि भूषण ध्वनिमिश्र इति यावत् ॥ १९ ॥



  1. विद्युत इव तरलतेजस:-गो.
  2. विद्युत्सदृश-ङ.
  3. तपोरूपोपायात यौनमास्थितं - गो.